Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ यतीन्द्रमतदीपिकाप्रतीतिवव्रीहिराशावेको व्रीहिरितिवञ्च ज्ञानैकाकारतयैकत्वव्यवहारः । न तु स्वरूपैक्यम् । प्रमाणविरोधात् । __ स्वतः सुखी । उपाधिवशात्संसारः । अयं च कर्ता भोक्ता शरीरी शरीरं च भवति । प्रकृत्यपेक्षया शरीरी। ईश्वरापेक्षया शरीरम् । तस्य प्रत्यक्षश्रुतिभ्यां एको व्रीहिरिति । एको ब्रीहिः सुनिष्पन्नः सुपुष्टं कुरुते जनमित्यादौ यथा। रामसुग्रीवयोरैक्यमित्यत्राप्येवमेव । तयोः प्रकारस्थैक्यात् । ज्ञानकाकारतयेति । इय. देवहि जीवाद्वैतम् । जीवाद्वैतशब्दस्य प्रकाराद्वैते तात्पर्यात् । जीवानामनेकत्वेऽपि सेषां प्रकारस्यैक्यात् । ' नानात्मानो व्यवस्थातः । इतिन्यायसूत्रेऽपि जीवानेकत्वमेव स्थापितम् । सांख्यैरप्युक्तम् 'जननमननकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ' (सां. का. १८) इति । । तथा च जीवभेदनिषेधवचनानि प्रामाणिकस्वरूपभेदव्यतिरिक्तदेहात्माभिमाननि. बन्धनदेवत्वादिभेदनिषेधपराणीत्युक्तं न्यायसिद्धाञ्जने । एवं जीवानां परस्परं भेदे सिद्धे जीवब्रह्मभेदोऽपि सिध्यति । 'नेह नाना' (बृ० ४।४।१९) इत्यादिश्रुतयस्तु सर्वस्य ब्रह्मशरीरत्वेन ब्रह्मशरीरव्यतिरिक्तवस्त्वन्तरनिषेधार्थिकाः । एतदेव हि ब्रह्माद्वैतम् । तस्य प्रकार्यद्वैते तात्पर्यात् । ब्रह्मशरीरभूतानां प्रकाराणां जीवानामनेकत्वेऽपि तेषां सर्वेषामात्म. भूतस्यप्रकारिणो ब्रह्मण ऐक्यात्। मुक्तावपि न जीवब्रह्मणोरैक्यम् । 'सदा पश्यन्ति सूरयः' (नृ० पू० १।१० ) इत्युक्तेः। किंतु साम्यमात्रम् । ' मम साधर्म्यमागताः ' (गी. .१४ । २) इति भगवतैवोक्तत्वात् । . स्वतः सुखीति । तदुक्तमात्मसिद्धौ 'नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ' इति । उपाधिवशादिति । अनादिकर्मरूपाविद्याकृताचित्संसर्गादित्यर्थः । उपाधिलिङ्गः देहः प्रकृत्यात्मकोऽनादिरिति मान्याः । कर्तेति । तथा च श्रुतिः-' कर्ता विज्ञानात्मा पुरुषः ' (प्र. ४।९ ) इति । अत एव 'यजेत स्वर्गकामः ' ' ब्रह्मेत्युपासीत' (छां. ३।१८११) इत्यादिशास्त्राणामर्थवत्त्वम् | बोद्धुरेव हि शासनं नाचेतनस्य प्रधानादेः। इदं च 'कर्ता शास्त्रार्थवत्त्वात् (ब. सू.२।३।३३) इत्यधिकरणे स्पष्टम् । यत्तु प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताऽहमिति मन्यते ।। . (गी. ३।२७ ) इति गुणानामेव कर्तृत्वं स्मर्यत इति । तत्सांसारिकप्रवृत्तिष्वस्य कर्तृता सत्त्वरजस्तमोगुणसंसर्गकृता न स्वरूपप्रयुक्तेत्याशयेन । एवमात्मनः कर्तृत्वे सिद्धे तन्मूलकं भोक्तृत्वमपि तस्यैवेत्याह -भोक्तेति । प्रकृत्यपेक्षयेति । प्रकृतिवि. कारभूतपाञ्चभौतिकशरीरापेक्षयेत्यर्थः । ईश्वरेति। 'यस्याऽऽत्मा शरीरम् ' (बृ.३१७१३) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126