Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाचक्षुषा पश्यामि श्रोत्रेण शृणोमि वाचा वदामीत्यादिप्रत्ययावान्द्रियेभ्यो व्यावृत्तः । मनसा जानामीति मनसो ज्ञानकरणत्वप्रतीतेः, मिति भेदप्रतिभासः । किंच चैतन्यमपि देहे नोपपद्यते । कार्यद्रव्यगतविशेषगुणानां कारणगुणपूर्वकत्वात् । ताम्बूलादावपि चर्वणननितहतवहसंयोगसंपादितपाटलिमभिः परमाणुभिणुकादिक्रमेण कारणगुणपूर्वक एव रागोदयः । किंचानुमानेनापि देहस्यानात्मत्वं सिध्यति तथा चोक्तम् — उत्पत्तिमत्त्वात्पारार्थ्यात्संनिवेशविशेषतः । रूपादिमत्त्वाद्भूतत्वाद्देहो नाऽऽत्मा घटादिवत् ॥ सच्छिद्रत्वाददेहित्वादेहत्वान्मृतदेहवत् ' इति । किं च देहात्मवादे जन्मान्तरामावेनाकृताभ्यागमकृतविप्रणाशदोषप्रसङ्गः । सन्ति हि देहान्तरानुभाव्यस्वर्गस्वाराज्यादिसाधनविधायिन्यः श्रुतयः । किं च जातमात्रो हि जन्तुः स्तन्यादिवाञ्छायुक्तस्तदर्थप्रवृत्त्या निश्चीयते । तदवस्थस्य च रागादयो जन्मान्तरीयसंस्कारोबोधमन्तरेण न युज्यन्त इति बोध्यम् । चक्षुषेति । इन्द्रियात्मवादिनामयमभिप्रायः-ज्ञानं हीन्द्रियव्यापारफलम् । अतस्तदिन्द्रियसमवाय्येव भवितुमर्हति । ज्ञानाश्रयत्वमेव च चेतनत्वमिति । किं त्वेतदयु. क्तम् । चक्षुषा पश्यामीत्यादिप्रतीतिविरोधात् । तत्र हि द्रष्ट्रादिश्चक्षुरादिभ्यो भिन्न एव प्रतीयते । किं चेन्द्रियाणां प्रत्येक चेतनत्व संभूय वा। नाऽऽद्यः । इन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण प्रतिसंधानाभावप्रसङ्गात् । अस्ति च तत् 'यमहमद्राक्षं तमहं स्पृशामि' इति । नान्त्यः । न हि पञ्चभिरिन्द्रियैः संभूयेकं वस्त्वनुभूयतेऽनुसंधीयते वा । किंचैकेन्द्रिय विगमे मरणप्रसङ्गः। तत्तदिन्द्रियापाये तदिन्द्रियार्थस्मरणानुपपत्तिश्च । तथा चान्धो रूपं न स्मरेत् । बधिरः शब्दं न स्मरेत् । ज्ञानस्येन्द्रियव्यापारजन्यत्वेऽपि शस्त्रादिव्यापारजन्मनः पापादेरिव परसमवायित्वं नानुपपन्नम् । मनसेति । किंच बाह्येन्द्रियेषु यथायथं स्वस्ववि. षयसंबद्धेष्वपि यतो न युगपत्सर्वे विषयाः प्रतीयन्ते ततोऽवगच्छामः, अस्ति किंचिदपरमपि साधनं यत्साहाय्यकविरहान्न सर्व विषया युगपत्प्रकाशन्ते किंतु कश्चिदेवैकः प्रतीयत इति मनप्तः करणत्वसिद्धिः । 'सुखदिसंवेदनानि करणवन्ति क्रियात्वात्, रूपादिज्ञानवत्' इत्यनुमानमप्यत्र प्रमाणम् । तदेवं ज्ञानकरणतयाऽवगतस्य मनसः कथमिव ज्ञाने कर्तृत्वम् । कर्तृत्वं हि स्वातव्यनियतम् । स्वातन्त्र्यं च स्वच्छन्दानुरोधेन साध्यसिद्धयनुगुणोपकरणसंपादनसामर्थ्यम् । करणत्वं तु पारतव्यनियतम् । पारतन्व्यं च पराधिष्ठा. नाधीनव्यापारत्वम् । ननु प्राण एवाऽऽत्मा। प्राणान्वयिनि शरीरे सात्मकत्वप्रतीतेस्तद For Private And Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126