Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७ प्रकाशसहिता। अथाष्टमोऽवतारः। अथ जीवो निरूप्यते-प्रत्यक्त्वचेतनत्वात्मत्वकर्तृत्वादीनीश्वरजीवसाधारणानि लक्षणानि । प्रत्यक्त्वं नाम स्वयमेव स्वस्मै भासमानत्वम् । चेतनत्वं जानाश्रयत्वम् । आत्मत्वं शरीरप्रतिसंवन्धित्वम् । कर्तृत्वं संकल्पज्ञानाश्रयस्वम् । एवं सामान्यलक्षणलक्षितस्य विशेषलक्षणान्युच्यन्ते-अणुत्वे सति चेतनत्वम् । स्वतः शेषत्वे सति चेतनत्वम् । एवमाधेयत्वविधेयत्वपराधीनकर्तृत्वपरतन्त्रत्वादिकमूह्यम् । स च देहेन्द्रियमनःमाणादिभ्यो विलक्षणः । यथा मम शरीरमिति प्रती. त्या देहाद्यावृत्तः। अथाष्टमोऽवतारः । शेषत्वे सतीति । शेषत्वं च यथेष्टविनियोगार्हत्वम् । चेतनत्वमात्रोक्तावीश्वरेऽतिव्याप्तिः । शेषत्वमात्रोक्तावचित्पदार्थेष्वतिव्याप्तिरत उमयोपादानम् । जीवश्चार्य परमात्मना स्वेच्छानुसारेण विनियज्यत एवेति लक्षणसमन्वयः । आधेयत्वेति । आधेयत्वमाश्रितत्वम् । विधेयत्वं नियाम्यत्वम् । देहान्यावृत्त इति । चार्वाकास्तु देह एवाऽऽत्मेति वदन्ति । अत एव स देहावधिकः । न तु देहोत्पत्तेः पूर्व देहनाशानन्तरं वा तस्य स्थितिः । देहात्मवादे प्रमाणं त्वहं जानामीति प्रत्ययः । ज्ञाता ह्यात्मा अहमिति चकास्ति । देहश्चाहंकारगोचरः । स्थूलोऽहं कृशोऽहमिति दर्शनात् । देहस्य हि स्थौल्यादियोगः। अतस्तत्समानाधिकरणतयाऽयमहंकारः शरीरालम्बन इत्यवश्याश्रयणीयम् । यद्यपि भौतिकेषु काष्ठलोष्टादिषु चैतन्यं नोपलभ्यते तथाऽपि मूतचतुष्टयसंघातात्मकदेहे चैतन्याविर्भावो नानुपपन्नः । यथा क्रमुकफलताम्बूलदलादिष्ववयवेषु प्रत्येकमविद्यमानोऽपि रागः संयोगविशेषादवयविन्याविर्भवति तद्वत् । परं त्वेतदरमणीयम् । इदं शरीरमिति शरीरविषयिणी मतिः पराग्वृत्तिः । अहं जानामीति प्रत्यम्वृत्तिरहमिति मतिः । सा चेदंकारगोचराद्भिन्नमेव स्वविषयमुपस्थापयति । तदुक्तम् - _ 'न खल्वहमिदंकारावेकस्यैकत्र वस्तुनि ' इति । स्थूलोऽहमित्यादिस्तु लाक्षणिकः प्रयोगः । अत एव ममेदं गृहमितिवन्ममेदं शरीर १ क. ख. ग. "रीरं न । २ क. "स्य जीवस्य वि। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126