Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। ६५ . भक्तिपरयोरेव मोक्षसाधनत्वेन स्वीकारात्परोक्तोपायनिरासः । यथा वेदवाखाना मध्ये केषांचिन्मते देहातिरिक्तात्मनोऽनङ्गीकारान्मोक्षे प्रवृत्तिरेष न संभवति । अन्येषां मते ज्ञानस्य क्षणिकत्वात्तस्यैवाऽऽत्मत्वात्कस्य प्रवृत्तिः। संतानस्येति चेन्न । अन्यं प्रत्यन्येन यत्नो न कर्तव्य इति न प्रवृत्तिः । अपरेषां मते धर्माधर्मादिसप्तभङ्गीरीत्याऽनैकान्तवादान प्रवृत्तिः । वैशेषिकादिपक्षे 'साधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः । साध्यभक्तिस्तथा सैव प्रपत्तिरिति गीयते ।। उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः । उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी । उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी । साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसो ' इति । यद्यप्येवं प्रपत्तिः प्रारब्धमपि निःशेषं विनाशयितुं शक्ता तथाऽपि निःशेषवैराग्याभावे रागविषयमंशं तदनुबन्धि दुःखं च स्थापयति । निःशेषवैराग्ये तु निःशेष निवर्तयति । अयमेव परमैकान्तिनोईप्तातयोर्भेद इत्याहुः । केषांचिन्मते । चार्वाकाणां मते । अन्येषाम् । विज्ञानवादिनां बौद्धानाम् । अपरेषाम् । जनानाम् । सप्तभङ्गीरीत्येति । सप्तभङ्गाश्च स्याद्वादमञ्जयाँ प्रतिपादिताः। तथाहि-एकत्र जीवादी वस्तुन्य कैकसत्त्वादिधर्मविषयप्रभवशादविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तमङ्गीति गीयते । तद्यथास्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । स्यान्नास्त्येव सर्वमिति निषेधक. रूपनया द्वितीयः । स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकरुपनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः । स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्व कुम्भादि । न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनास्ति नाबादिरूपत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्नादित्वेन । कालतः शिशिरत्वेन, न वासन्तिकत्वेन । भावतः श्यामत्वेन, न रक्तादित्वेन । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र मङ्गेऽन. १ क. प्रतिप । २ क. "त्वात्क । ३ घ. त्या छन । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126