Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता । ६३ विवेको नाम क्रिया कल्याणानवसादानुद्धर्षरूपसाधन सप्तकजन्यः । तत्र जात्याश्रयनिमित्तादुष्टान्नात्कायशुद्धिः । विमोकः कामानभिष्वङ्गः । अभ्यासः पुनःपुनरालम्बन संशीलनम् । शक्तितः पञ्चमहायज्ञाद्यनुष्ठानं क्रिया । कल्याणानि सत्यार्जवदपादानाहिंसादीनि । अनवसादो दैन्याभावः । अनुद्धस्तुष्ट्यभावः । अतिसंतोषश्च विरोधीत्यर्थः । एवं साधन सप्तकानुगृहीता भक्तिर्दर्शनसमानाकाराऽन्तिमप्रत्ययावधिका च भवति । स चान्तिममत्यय एतच्छरीरावसाने शरीरान्तरावसाने वा भवति । वेदनध्यानोपासनादिशब्दवाच्या भक्तिः परभक्तिपरज्ञानपरंमभक्तिरूपक्रमaft पश्यङ्गकाच । सा द्विविधा - साधनभक्तिफलभक्तिभेदात् । उक्तसाधनजन्या साधनभक्तिः । फलभक्तिस्त्वीश्वरकृपाजन्य श्रीपराङ्कुशनाथादिनिष्ठा । मद्भक्तजनवात्सल्यमित्यादिषु स्तुतिनमस्कारादिषु च भक्तिशब्दम तस्य धारणा ' ( यो० सू० १ । १ ) । ध्येयस्वरूपे देशे चित्तस्य बन्धो विषयान्तरपरिहारेण यत्स्थिरीकरणं सा चित्तस्य धारणेत्यर्थः । ' तत्र प्रत्ययैकतानता ध्यानम् ' ( यो० सू० ३ । २ ) । तत्र ध्ययस्वरूपे प्रत्ययस्य ज्ञानस्यैकतानता तदालम्बनतयैव निरन्तरमुत्पत्तिर्ध्यानमित्यर्थः । तदेवार्थमात्र निर्मासं स्वरूपशून्यमिव समाधिः' ( यो० सू० ३ । ३ ) । सम्यगाधीयत एकाग्री क्रियते यत्र मनः स समाधिरिति । साधनसप्तकेति । अत्र विवेकादिषु कारणत्वं व्यासज्यवृत्ति । न तु प्रत्ये पर्याप्तम् । जातीति । नातिदुष्टं कलजगृजनादि । भाश्रयदुष्टं पतितादिस्वामिकम् । निमित्तदृष्टमुच्छिष्टादि । एतत्त्रिविधदोषरहितादन्नात्कायशुद्धिर्विवेक इत्यर्थः । आलम्बनेति । आलम्बनं शुभाश्रयस्तस्य संशीलनं पुनः पुनः परिशोधनम् । सत्येति । सत्यं भूतहितम् | आर्जवं वाक्कायानामैकरूप्यम् । दया स्वार्थनिरपेक्षपरदुःखासहिष्णुत्वम् । दानं लोमराहित्यम् । अहिंसा कायेन वाचा मनसा च परपीडानिवृत्तिः । आदिपदादनभिध्यासंग्रहः । अभिध्या परकीये स्वबुद्धिः । यद्वा निष्कलचिन्ता । अथवा परकृतापराधचिन्ता । तद्भाहित्यमनभिध्या | दैन्येति । दैन्यं चाभीष्टकार्यप्रवृत्त्यक्षमत्वम् । तच्च देशकालवे - षम्याच्छोकवस्त्वाद्यनुस्मृतेश्च भवति । प्रपत्यङ्गकेति । प्रपत्त्यङ्गभूतेत्यर्थः । साधनभक्तिरिति । सा च व्यासादिनिष्ठा । श्री पराङ्कुशनायादीति । पराङ्कुशनाथश्चायं श्रीरामानुजाचार्यात्प्राचीनतम स्ताम्रपर्णी १. तादु । ख तादुष्यद' । २ घ 'रमज्ञा । ३ ख. 'रमा भक्तिरूपक्रिया क्रमवती त्याच । खधन्याप । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126