Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकायोग औपचारिकः । ननु वेदान्तेषु श्रवणमननयोरपि विधानात्कथं ध्यानमेव विधीयत इति चेदुच्यते-अधीतसाङ्गवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात्तनिर्णयाय स्वयमेव श्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वादनुवादः। श्रवणप्रतिष्ठार्थत्वान्मननस्याप्यनुवादः । तस्माद्ध्यानमेव विधीयत इति न विरोधः। . ध्यानशब्दवाच्या भक्तिर्विद्याभेदाबहुविधा । काश्चन विद्या उच्यन्ते
अन्तरिक्ष विद्या, अन्तरादित्यविद्या, दहरविद्या, भूमविद्या, सद्विद्या, मधु. विद्या, उपकोसलविद्या, शाण्डिल्यविद्या, उद्गीथविद्या, पुरुषविद्या, प्रतर्दनविद्या, वैश्वानरविद्या इत्यादिका ब्रह्मविद्या । न्यासविद्या प्रपत्तिः । प्रपत्तिर्नाम
' आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा' ॥ आत्मनिक्षेपकार्पण्यम् । इत्याद्यङ्गपञ्चकयुक्ता । एतदेहावसाने मोक्षपदा सकृत्कर्तव्या न्यासः शारजागतिरित्यादिशब्दैवेद्या ज्ञानविशेषरूपों । एषा प्रेपत्तिर्गुरुमुखाद्रहस्यशा. स्त्रेषु संप्रदायतया वेदितव्येतीह बालबोधनार्थे प्रत्ते ग्रन्थे न प्रकाश्येति विरम्यते । तीरनिवासीति प्रसिद्धिः । वेदान्तेष्विति । 'आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यः' (बृ० २ । ४ । ५) इति श्रुतौ श्रवणमननयोविधिरस्तीति शङ्ककाशयः । प्रयोजनवदिति । स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनादि. त्यर्थः । श्रवणस्य प्राप्तत्वादिति । ननु पुस्तकनिरीक्षणादिव्यावृत्त्यर्थं श्रोतव्य इति विधिः किं न स्यादिति चेन्न । वेदान्तवाक्यानामपि पुस्तकनिरीक्षणादिव्युदातस्याध्ययनविधिसिद्धत्वात् । विलेखनपठनादिप्रतिषेधस्तु ब्रह्ममीमांसायामनिष्ट एव । न च गुरूपसत्त्यर्थमयं विपिरस्त्विति वाच्यम् । गुरूपसत्तौ श्रवणशब्दस्य मुख्यार्थत्वाभावात् । तस्याश्चात्राविहितत्वेऽपि 'गुरुमेवाभिगच्छत् ' ( मुं० १ । २ । १२ ) इति बाक्यान्तरसिद्धत्वाच्च । श्रवणप्रतिष्ठार्थत्वादिति । आचार्योपदिष्टस्यार्थस्य स्वात्म. न्येवमेव युक्तमिति हेतुतः प्रतिष्ठापनमेव मननमिति भावः । एतेन मन्तव्य इत्यारम्भणसंशीलनरूपमननविधिरयमित्यपास्तम् । श्रवणशब्दस्य न्यायोपेतवाक्पजन्यज्ञान इव मननशब्दस्य तत्प्रतिष्ठापनेऽर्थे प्रसिद्धिप्राचुर्यात् ।
एतदेहावसान इति । न च प्रारब्धकर्मणोऽसमाप्तत्वे देहान्तरस्यापि प्रसङ्ग इति वाच्यम् । प्रपत्तौ प्रारब्धस्यापि नाशाङ्गीकारात् । यथाऽऽहुः--
घ. न्ते । २ क. °द्यान्यस । ३ ख. 'ब्द वाच्या ज्ञा। ४ ध. 'पा ।प्र। ५ क. 'प्रतिप। ६ ख. वृत्तगुम्फे न ।
For Private And Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126