Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकानोक्तानां कर्मयोगज्ञानयोगमभृतीनां भक्तिद्वारव साधनत्वम् । कर्मयोगो नामो. पदेशाजीवपरयाथात्म्यज्ञानवता शक्त्यनुसारेण फलसारहितानिषिद्धका. म्यनित्यनैमित्तिकरूपपरिगृहीतकर्मविशेषः । स तु देवार्चनतपस्तीर्थदानयज्ञा. दिभेदभिन्नः । अयं तु जीवगतकल्मषापनयनद्वारा ज्ञानयोगमुत्पाद्य तद्वारा साक्षाद्वा भक्त्युत्पादको भवति । ज्ञानयोगो नाम कर्मयोगानिर्मलान्तःकरणस्येश्वरशेषत्वेन प्रकृतिवियुक्तस्वात्मचिन्ताविशेषः । एतस्य साक्षाद्भक्त्युपयो. गित्वम् । एवं साधनान्तराणामपि भक्त्युपयोगित्वगृह्यम् । भक्तियोगो नाम यमनियमासनप्राणायामप्रत्याहारंधारणाध्यानसमाधिरूपाटावांस्तैलधारावदविच्छिन्नस्मृतिसंतानरूपः। स च विवेकविमोकाभ्यास. घ मोक्षाङ्गत्वेन कथ्यते । अचिरादिमार्गेण गतिश्च मोक्षात्पूर्व श्रूयते । दोषान्तरमाहबुद्धे चेदिति । न दुःखमिति । न हि ज्ञानिनां मूर्धाभिषिक्तोऽपि क्षुधादुःख. मेव तावत्क्षणमात्र सोढुं प्रमवतीति । भक्तिद्वारैवेति । तदुक्तं न्यायसिद्धाञ्जने' भक्तियोगः परमप्राप्त्युपायभूतः । तदशक्तस्य तद्भक्तियोगसिद्ध्यर्थमात्मावलोकनमपेक्षितम् । तस्य च ज्ञानयोगकर्मयोगी द्वौ पृथगुपायो । तत्र ज्ञानयोगः स्वात्मावलोकनेऽन्तरङ्गः । तथाऽपि प्रथमं स दुष्करः । तदनधिकारिणस्तुल्यफलः कर्मयोग एक कार्यः । तदधिकारिणोऽपि व्यपदेश्यस्य लोकसंग्रहार्थ कर्मयोग एव कार्यः। अशक्तस्य ज्ञानयोगशक्ति कर्मयोग एवोत्पादयति । तदा कर्मयोगं परित्यज्य ज्ञानयोगमनुतिष्ठतोऽपि न दोषः ' इति । यमनियमेति । यमादीनां स्वरूपं योगसूत्रे प्रतिपादितम् । तथाहि-अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमः' (यो० सू० २।३०)। 'शौचसंतोषतपःस्वाध्यापेश्वरप्रणिधानानि नियमः' ( यो सू० २ । ३२ ) । 'स्थिरमुखमाप्सनम्' (यो. सू० १ । ४६ ) । आस्यतेऽनेनेत्यासनं पद्माप्सनादि । तद्यदा स्थिरं निष्कम्पं सुखम. नुद्वेननीयं च भवति तदा तद्योगाङ्गतां भजत इत्यर्थः । ' तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः' (यो० सू० २। ४९)। तस्मिन्सति आसनस्थैर्य सतीत्यर्थः । 'स्वस्खविषयसंप्रयोगाभावे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः' (यो० सू० २।५४) । इन्द्रियाणि स्वस्वविषयेभ्यः प्रत्याहियन्ते प्रतिकूलतया ह्रियन्ते यस्मिन्निति प्रत्याहारः । चक्षुरादीन्द्रियाणां रूपादिविषयप्रवृत्त्यमावे सति, इन्द्रियाणि चित्तस्वरूपमात्रानुकाराणि यद्भवन्ति स प्रत्याहार इत्यर्थः। 'देशबन्धश्चि. .स. वत्ताश' । २ ग. घ. 'चनात् । ३ ग. र्थयात्रादा। ४ घ. क्षात्कारम। ५ ख. तियु'।। ग. चिन्तनवि' । ७ ख. 'रध्यानधारणास' । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126