Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० यतीन्द्रमतदीपिकामुमतिदुर्मतिमुभीतितुष्टयुन्नतिशान्तिविरक्तिरतिमैत्रीदयामुमुक्षालज्जातितिक्षाविचारणाजिगीषामुदिताक्षमाचिकीर्षाजुगुप्साभावनाकुहनाऽसूयाजिघांसातृष्णा. दुराशावासनाच श्रद्धा भक्तिः पत्तिरित्येवमादयश्च जीवगुणा अनन्ता धर्मभूतज्ञानावस्थाविशेषा एव । एवं ज्ञानशक्तिवलैश्चर्य वीर्यतेज सौशील्यवात्सल्यदिजिवसौहार्दधैर्यसाम्यकारुण्यमाधुर्यगाम्भीयौँ दार्यस्थैर्यपराक्रमादयो भगवतोऽनन्तकल्याणगुणा ज्ञानर्शक्तिविततिभूताः । तत्र ज्ञानं नाम सर्वसाक्षात्काररूपम् । शक्तिरघटितघटनासामर्थ्यम् । बलं धारणसामर्थ्यम् । ऐश्वर्य नियमनसामर्थ्यम् । वीर्यमविकारित्वम् । तेजः पराभिभर्वसामर्थ्यम् । महतो भन्दैः सह नीरन्ध्रण संश्लेषस्वभावत्वं सौशील्यम् । वात्सल्यं दोषेऽपि गुणत्वबुद्धिर्दोषादशित्वं वा । आश्रितविरहासहत्वं मार्दवम् । मनोवाकार्यकरूपमार्जवम् । स्वसत्तानपेक्षतद्रक्षापरत्वं सौहार्दम् । अभिनिवेश आग्रहः । आक्रोशनावज्ञादिननितो विषयद्वेषाख्यश्चित्तविकारो निर्वेदः । इष्टप्राप्त्यादिजन्मा सुखविशेष आनन्दः । मुमतिः समीचीना मतिः । तद्विपरीता मतिर्दुर्मतिः । सुप्रीतिः प्रियत्वम् । सर्वेषु दृष्टेषु तोषस्वभावत्वं तुष्टिः । पराक्रमदानादिस्मृतिनन्य उत्साह उन्नतिः । इन्द्रियाणां विषय. प्रावण्यनिरोधसंशीलनं शान्तिः । दोषदर्शनाद्विषयत्यागेच्छा विरक्तिः । प्रेमाख्यश्चित्तविकारो रतिः । मैत्री मित्रत्वम् । भूतेषु सर्वेषु दुःखासहिष्णुत्वं दया । मुमुक्षा मोक्षेच्छा । अकार्यकरणादिजन्यो ज्ञानविशेषो लज्जा । परपीडानुभवेऽपि तत्सहनेच्छा तितिक्षा । विचारणा सद्विचारप्रवृत्तिः । निगीषा जयेच्छा । भोग्यवस्तुदर्शनश्चि. तविकारो मुदिता । परनिमित्तपीडानुभवेऽपि चित्तविकारराहित्यं क्षमा । चिकीर्षा क्रियाविषयेच्छा । कदर्यवस्तुविलोकनादिजन्यश्चित्तविकारविशेषो जुगुप्सा गोपनेच्छा था । भावना संस्कारविशेषः । कुहना विस्मापना वञ्चना वा । गुणेषु, दोषाविष्करणमसूया । निघांसा हननेच्छा । तृष्णाऽभिलाषविशेषो धर्माविरोधेन परद्रव्येच्छारूपः । दुराशा दुरिच्छा । वासना संस्कारविशेषः । चर्चा पूना । श्रद्धा विश्वासः । मक्तिप्रपत्त्योः स्वरूपमनुपदं वक्ष्यते । ज्ञानावस्थाविशेषा इति । तेषु च ज्ञानजन्यत्वा. दिना क्वचिद्भेदप्रतिभासेऽपि ज्ञानातिरिक्ततदङ्गीकारे प्रमाणाभावाद्गौरवाचेत्याशयः । पराक्रमादय इति । आदिना क्षमादिसंग्रहः । घ. 'शादुर्वास । २ क. प्रतिप । ३ ख. णादयो ज्ञा । ४ ग. घ. शक्त्योर्वित, ५ ग. 'ताः । ज्ञा। ६ ग. घ. 'वनसा । ७ क. विहारस। ८ ख. "पेक्ष्यं त । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126