Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता ।
५९
ज्ञानं, मतिः, प्रज्ञा, संविद, धिषणा, धीः, मनीषा, शेमुषी, मेधा, बुद्धिरित्यवेमादयः शब्दा ज्ञानपर्यायाः । बुद्धिरेवोपाधिभेदात्सुखदुःखेच्छाद्वेषप्रयत्नरूपा । सुखादिजनकतया ज्ञानातिरेके प्रमाणाभावात् । ' इच्छामि द्वेष्मि ' इति यवहारस्य स्मरामीत्यादिवज्ञानविशेषेणैवोपपत्तेः । ननु कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींर्धीभरित्येतत्सर्वे मन एवेत्युक्तम् । ज्ञानरूपत्वं कथमिति चेन्न । ज्ञानस्य मनःसहकारित्वनियमान्मन एवेत्युपचा· रादुक्तमिति न विरोधः ।
एवं प्रत्यक्षानुमानागमस्मृतिसंशय विपर्यय भ्रमविवेकव्यवसाय मोहरागद्वेषमदमात्यधैर्यचापल्यदम्भलो भक्रोधदर्पस्तम्भद्रोहाभिनिवेशनिर्वेदानन्दादयः
सुखादीति । सुखादिजनकतया सुखादिव्यतिरिक्तज्ञानाङ्गीकारे प्रमाणाभावादित्यर्थः । एतदुक्तं भवति - विषयज्ञानानि विषयाधीनविशेषाणि सुखदुःखमध्यस्थसाधारणानि भवन्ति । तत्र येन विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकमित्यभिमतं तद्विषयज्ञानमेव सुखम् । तदतिरेकि पदार्थान्तरं नोपलभ्यते । तेनैव च सुखित्वव्यवहारो - पपत्तेरिति । उपपत्तेरिति । वैषयिकसुखदुःखस्वरूपत्वं च ज्ञानस्य विषयाधीनमिति विषयस्यापि सुखदुःखशब्दवाच्यत्वमस्त्येवेति सुखं स्वर्ग इत्यादिव्यवहारोपपत्तिः । अत एव वेदार्थसंग्रहे ' विषयायत्तत्वाज्ज्ञानस्य सुखरूपतया ब्रह्मैव सुखम् ' इत्युक्तम् ।
एवं प्रत्यक्षेति । स्मृतिर्नाम पूर्वानुभवजन्य संस्कारमात्र जन्यं ज्ञानम् । अनध्यव - सायो ज्ञानं संशयः । विपर्ययोऽन्यथाज्ञानम् । तच्च धर्मविपर्यासरूपम् । भ्रमो धर्म • विपर्यासः । संदेहानन्तरं जायमान ऊहो विवेकः । व्यवसाय उद्यमः । भयादिजन्यं वस्तुतत्त्वानवधारणं मोहः । रागो विषयानुवभूषा । द्वेषो विषयजिहासा । विषयानुभवजन्यो ज्ञानविशेषो मदः । स्वप्रयोजनप्रतिसंघानं विना पराभिमतनिवारणेच्छा मात्सर्यम् । आरब्धायाः क्रियाया विघ्नोपनिपातेऽपि तत्समापनसामर्थ्यं धैर्यम् । तदभावोऽधैर्यम् । चापल्यं चञ्चलता । धार्मिकत्वख्यापनाय धर्मानुष्ठानं दम्भः । धर्मविरोधेन परद्रव्येच्छा लोभः । तदुक्तं पद्मपुराणे -
'परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते ।
अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः ' इति ।
विषयानुभव
परपोडाफलकश्चित्तविकारः क्रोधः । कृत्याकृत्याविवेककरो निमित्तो हर्षो दर्पः । स्तम्भोऽनारम्भशीलत्वम् । परेषु स्वच्छन्दवृत्तिनिरोधो द्रोहः ।
१ क. घ. कज्ञा । २क. ग. घ. त्सर्यचा । ३ घ 'पद' ।
For Private And Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126