Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - प्रकाशसहिता। सर्व शानं स्वत एव प्रमाणम् । स्वकाशं च । विमतिपन्ना संवित्स्वगतव्यवहार प्रति स्वाधीनकिंचित्कारा स्वजातीयसंवन्धानपेक्षव्यवहारहेतुत्वात् । अर्थेन्द्रियदीपवत् । न च चक्षुरालोकयोः सजातीयत्वम् । अहंकारिकतैजसभे. दाद्भेदः । अनेन ज्ञानस्य क्षणिकत्वं विक्षणावस्थायित्वं प्रातिभासिकवधत. हारस्य मिथ्यात्वं परतः प्रामाण्यं ज्ञानस्यैवाऽऽत्मत्वमित्यादिपक्षा निरस्ताः । • स्तम्भः स्तम्भ इत्यादिधारावाहिकं ज्ञानं त्येकमेव । नन्वागमबलाज्ञानस्य नित्यत्वाङ्गीकारे कथं जागरसुषुप्त्यादिभेदसिद्धिरिति चेन्न । यथा दाहकस्य वहेर्दाह्य संनिधौ मण्यादिपतिवन्धके दाहाभावः । तद्वज्ज्ञानस्य तिरोधायक 'प्रज्ञा च तस्मात्प्रसूता पुराणी' (श्वे. ४१८) इति श्रुतिस्वरससिद्धम् । नन्वाकाशवदमूर्तत्वाद्गुणत्वाच ज्ञानस्य कथं क्रियावत्वमिति चेत् । किमिदममूर्तत्वम् । क्रियारहितत्वमिति चेदन्योन्याश्रयः । स्पर्शरहितत्वमिति चेयभिचरितो हेतुः । स्पर्शरहितेऽपि शब्ने क्रियादर्शनात् । स खलु शङ्खमुखादेर्दवीयसोऽपि देशान्नोदन. विशेषेण लोष्टादिरिव यावद्वेगं प्रतिष्ठते । ज्ञानस्य गुणत्वेऽपि द्रव्यत्वस्याने वक्ष्यमा. णत्वात्कियावत्समाविरुद्धम् । एतेनाऽऽत्मधर्मभूतज्ञानस्य स्वाश्रयादन्यत्र कथं गमनमिति परास्तम् । स्वत एवेति । तदुक्तं सर्वार्थसिद्धौ-घटोऽस्तीति ज्ञानमुत्पद्यते । तत्र विषयास्तित्वमेव प्रामाण्यम् । तत्तु तेनैव ज्ञानेन प्रतीयते । अतः स्वतः प्रामाण्यं प्रतीयते । यत्र पुनः शुक्तौ रजतज्ञानमुत्पद्यते तत्रापि रजतमस्ति ' इति रजतास्तित्वमेव प्रतीयते । न पुनर्नास्तित्वं तेनैव ज्ञानेन प्रतीयते । अतो विषयास्तित्वं स्वेन, नास्तित्वं च बाधकेन प्रतीयत इति स्वतः प्रामाण्यप्रतीतिरप्रामाण्यप्रतीतिः परत इति विभाग इति । किंच यथा जल उष्णस्पर्शस्य न स्वतस्त्वम् । किं तु परतस्त्वम् । तस्य स्वतस्त्वं तु तेजप्ति प्रसिद्धम् । तथा ज्ञाने प्रमाणत्वस्य यदि परतस्त्वं स्याहि तस्यान्यत्र क्वचिदपि स्वतस्त्वमावश्यकम् । तच्च न संभवति । प्रमाणत्वस्य ज्ञानमात्रनिष्ठत्वात् । अतस्तस्य ज्ञाने स्वतस्त्वमेवाङ्गीकार्यमिति समासोक्तौ विस्तरः ॥ एकमेवेति । धारावाहिकविज्ञानं नारन्ध्रनिर्यातमणिमयूखवदेकरूपम् । तदुक्तं प्रज्ञापरित्राणे 'स्तम्भः स्तम्भः स्तम्भ इति धोर्धारावाहिका मता। धारावाहिकविज्ञानमेकं ज्ञानं मतं हि नः ॥ १ घ. 'चित्करी स्वस्वजा । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126