Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाअथ ससमोऽवतारः ॥७॥ अथ क्रमप्राप्तं धर्मभूतज्ञानं निरूप्यते-स्वयंप्रकाशाचेतनद्रव्यत्वे सति विषयित्वम् । विभुत्वे सति प्रभावद्रव्यगुणात्मकत्वम् । अर्थप्रकाशो बुद्धिरिति तल्लक्षणम् । तद्धर्मभूतज्ञानमीश्वरस्य नित्यानां च सर्वदा नित्यमेव विभु च । बद्धानां तिरोहितमेव । मुक्तानां पूर्व तिरोहितमनन्तरमाविर्भूतम् । ज्ञानस्य नित्यत्वे ज्ञानमुत्पन्नं ज्ञानं नष्टमिति व्यवहारः कथमिति चेन । ज्ञानस्य संकोचविकाशावस्थामादाय तत्संभवात् । दृतेः पादायथोदकं क्षरति तथा ज्ञानमपीन्द्रियद्वारा निःसत्यार्थेन संनिकृष्यते । अहिकुण्डलवत्संकोचविकासौ। अथ सप्तमोऽवतारः। स्वयंप्रकाशेति।ज्ञानं हि विषयप्रकाशवेलायां स्वाश्रयस्यैवाऽऽत्मनः स्वयंप्रकाशम् । अन्यकालान्यपुरुषगतं तु स्मृत्यनुमानादिविषयः संसारिणाम् । इतरेषां तु सर्वज्ञतयाऽन्यकालान्यपुरुषगतमपि स्वकीयेन प्रत्यक्षेण विषयी क्रियते । तथा च भाप्यम्-'यत्त्वनुभूतेः स्वयंप्रकाशत्वमुक्तं तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैव न तु सर्वेषां सर्वदा तपै. वेति नियमोऽस्ति ' इति । अत एवाऽऽहुः स्वधीविशेष सर्वज्ञोऽप्यध्यक्षयति वा न वा । आये सिद्धा स्वतः सिद्धिरन्यत्रासर्ववेदिता ॥ ज्ञानमस्तीति विज्ञानं स्वात्मानं साधयेन्न वा । पूर्वत्र स्वप्रकाशत्वं सर्वासिद्धिरतोऽन्यथा इति । नित्यमेवेति । तथा च श्रुतिः- ' न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ' (बृ. ४॥३॥३०) इति । स्मृतिरपि यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ।। यथोदपानकरणाक्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतः संभवः कुतः ।। तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवाऽऽत्मनो हि ते इति । इन्द्रियद्वारेति । एतदर्थमेव हि ज्ञानस्येन्द्रियापेक्षा । एतेन ज्ञानस्य नित्यत्वे. नोत्पत्त्यमावात्तस्येन्द्रियानपेक्षत्वमेव स्यादित्यपास्तम् । निःसृत्येति । निःसरणं चैतत् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126