Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता ।
जन्मज्ञानवृत्तगुणानपेक्षया सर्वैराश्रयणीयत्वं सोम्यम् । आश्रितदोषगोपन चातुर्यम् | अकम्पनीयत्वं स्थैर्यम् । अभग्नप्रतिज्ञत्वं धैर्यम् । परबलप्रवेशनसा मर्थ्य शौर्यम् । तन्निराकरणं पराक्रमः । स्वप्रयोजनमनपेक्ष्य परदुःखनिराचिकीर्षा दया परदुःखदुःखित्वं वा । क्षीरवदुपाध्यभावेऽपि स्वात्वं माधुर्यम् । भक्तानुग्रहह्वदान्यत्वादेरामूलतो दुरवगाहस्वं गाम्भीर्यम् । भूतं दवाऽप्यतुस्वप्तमौदार्यम् । एवं वदान्य इत्यादावप्यूह्यम् ।
६१
ज्ञानविशेषभृतयोर्भक्तिमपत्योः स्वरूपं किंचिदुच्यते - भक्तिप्रपत्तिभ्यां प्रसन्न ईश्वर एव मोक्षं ददाति । अतस्तयोरेव मोक्षोपायत्वम् । मोक्षोपायत्वे
For Private And Personal Use Only
भक्तिप्रपत्तिभ्यामिति । अत एव ' भक्त्या त्वनन्यया लभ्यः ' ( गी. ११।१४ ) इति संगच्छते । महनीयविषये प्रीतिर्भक्तिः । सैवावस्थाभेदात्परमभक्तयादिरूपतां भजते । सा चान्तरिक्षान्तरादित्यद हर भूमसन्मधूपकोसलशाण्डिल्योद्गीथ पुरुष प्रतर्दन. वैश्वानरादिविद्याभेदाद्बहुधा । नन्वेवं भक्तेर्मोक्षसाधनत्वे ' तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' ( श्वे. ३२८ ) इति श्रुतिविरोध इति चेन्न । एतासां विद्यानां बुद्धिविशेषरूपत्वात् । तयोरेवेति । तथा च भक्तिरूपापन्नोपासनध्यानवेदनादिशब्दवाच्योऽसकृदावृत्त भप्रायणादन्वहमनुवर्तमानो ज्ञानविशेषो मोक्षहेतु. रिति कर्माङ्गकस्य ज्ञानस्य मोक्षहेतुत्वं सिद्धम् । न केवलस्य कर्मणः । नापि ज्ञानसमुचितस्य । श्रुतौ वेदनमेव विधायोपायान्तरनिषेधेन तद्विरोधात् । वेदनाङ्गतया कर्मानुप्रवेशे तु न विरोधः । तथा सति तस्योपायान्तरत्वाभावात् । न च कर्मानुप्रवेशरहितस्य केवलस्यैव ज्ञानस्य मोक्षहेतुत्वमस्त्विति वाच्यम् । तस्याध्ययनविधि - सिद्धसाङ्गसशिरस्काध्ययनगृहीताक्षरराशिविशेषापातप्रतीत निरतिशय पुरुषार्थ साधनार्थनिर्णयरागप्राप्तश्रवणमात्रेण निष्पन्नस्याविधेयत्वात् । तावति सिद्धेऽपि मोक्षादर्शनाच्च । तदुक्तमापस्तम्बेन बुद्धे क्षेमप्रापणम् । तच्छास्त्रैर्विप्रतिषिद्धम् । बुद्धे चेत्क्षेम– । प्रापणमिव न दुःखमुपलभेत ' ( आ. ध. सू. २ । ९ । २१ । १४-१६ ) ग अस्यार्थः - ' आत्मनि बुद्धे ज्ञाते सति तज्ज्ञानमेव क्षेमं मोक्षं प्रापयति ' इति यदौलोमिनोक्तं तच्छास्त्रैविप्रतिषिद्धम् । शास्त्रेषु हि वाक्यार्थज्ञानोत्तरं ध्यानविधिर्बोध्यते । यावदायुषम् ' इति मरणपर्यन्तं ध्यानानुवृत्तिश्च प्रतिपाद्यते । यावन्न विमोक्ष्ये ' ( छा०. ६ १४ । २ ) इति शरीरपातावधिश्च मोक्षस्य क्रियते । ' तयोर्ध्वमायन्नमृतत्वमेति ( छ. ८१६ | ६ ) इति नाडीविशेषनिष्क्रमणं
6
6
'
१ ख वृत्ते गु' । २ ख. सामर्थ्यम् ३ घ त्वादिमत्वं दु । ४ घ प्रभुत्वं द° ।

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126