Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकास्त्रीन्द्रियम्, एकेन्द्रियवादः, स्वगिन्द्रियैकत्वस्वीकार इत्यादिविमतपक्षा निरस्ताः ।
राजसाहंकारसहकृताद्भूतादिसंज्ञकतामसाहंकाराच्छब्दादिपञ्चतन्मात्राण्याकाशादिपञ्च महाभूतानि चोत्पद्यन्ते । भूतानामव्यवहितसूक्ष्मावस्थाविशिष्टं द्रव्यं तन्मात्रम् । तदेव भूतोपादानम् । विशिष्टशब्दादिविषयाधिकरणं भूतम् । तन्मात्राणि शन्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति पश्च । भूतानि च तथा-आकाशवायुतेजोप्पृथिवीभेदात् । तत्र तामसाहंकारा. काशयोर्मध्यमावस्थाविशिष्टं द्रव्यं शब्दतन्मात्रम् । क्षीरदनोरन्तरालपरिणामवत् । तस्मादाकाशो जायते । अस्पर्शवत्त्वे सति विशिष्टशब्दाधारत्वं श्रोत्रा. प्यायितृत्वं चाऽऽकाशलक्षणम् । स चे प्रत्यक्षा शब्दमात्रगुणकोऽवकाशहेतुः। नील नम इति प्रतीते। पञ्चीकरणप्रक्रियया रूपांश्च । एतेनाऽऽकाशस्याजन्यत्वनिरासः । सूर्यपरिस्पन्दादिभिराकाशस्यैव माच्यादिव्यवहारोपपत्तौ दिगिति न
भेदस्यात्राविवक्षितत्वात् । तथात्वे चेन्द्रियानन्त्यस्यैव वक्तव्यत्वात् । एकेन्द्रियति । मनु यथैकस्यैव मनसो वृत्तिभेदास्तथैकस्यैवेन्द्रियस्य पञ्च वृतयः । तच्चेन्द्रियमन्यद्वा कल्प्यं त्वगिन्द्रियमेव वाऽस्त्विति चेन्न । तथा सति रूपादिप्रकाशनशक्तिनियमो ने स्यात् । सर्वत्र शब्दाधुपलब्धिप्रसङ्गात् ।
भूतानामिति । दधिरूपेण परिणममानस्य पयसो मध्यमावस्थावद्भूतरूपेण परिणममानस्य द्रव्यस्य ततः पूर्वा या का चिदवस्था तद्विशिष्टं द्रव्यं तन्मात्रशब्देनो। च्यत इत्यर्थः । अस्पर्शवत्वे सतीति । इदं पृथिव्यादावतिव्याप्तिवारणाय । कालेऽतिस्याप्तिवारणाय विशिष्टशब्दाधारत्वमिति । प्रत्यक्ष इति । यदोन्मीलनं चक्षुषस्तदैवाऽs. काशोऽयमिति प्रतीतः । न च नीरूपस्य कथं चाक्षुषप्रत्यक्षयोग्यतेति वाच्यम् । तत्र नीलरूपस्य सत्त्वात् । किंच त्वन्मते रूपवतोऽपि तदयोग्यत्वप्रसङ्गः । तत्रानुभवानुसारेण योग्यता कल्प्यत इति चेत्तुल्यमाकाशेऽपि । नीरूपस्यापि रूपस्य प्रत्यक्षत्वदर्शनाच्च । न च 'रूपरूपिरूपैकार्थसमवेत ' एतदन्यतमत्वं प्रत्यक्षप्रयोजकमिति वाच्यम् । समवायानङ्गीकारेण रूपैकार्थसमवेतत्वस्यानिरूपणात् । रूपैकार्थसंबद्धत्वं तत्त्वमिति
दाकाशेऽपि पञ्चीकरणप्रक्रियया तदस्त्येवेति बोध्यम् । अजन्यत्वनिरास इति । नीरूपद्रव्यत्वहेतुना नित्यत्वसाधने स्वरूपासिद्धिः । आकाशे नीलरूपसत्त्वात् । निर.
१ घ. 'राले कलिलप'। २ घ. 'च श'। ३ घ. 'ती ते रू।
For Private And Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126