Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकासहिता। पृषद्रिव्यकरपनम् । दिक्सृष्टिस्त्वन्तरिक्षादिसष्टिक्युपपद्यते । - आकाशात्स्पर्शतन्मात्रम् । आकाशवायोर्मध्यमावस्थाविशिष्टं इम्प पी. सन्मात्रम् । तस्मादायुः। विशिष्टस्पर्शवले सति रूपशून्यस्त्रम्, अस्मदादिपर्व. नैकेन्द्रियग्राह्याद्रव्यत्वम्, अनुष्णाशीतविशिष्टस्पर्शवत्वे सति गभून्यस्वमित्यादिकं वायोलक्षणम्। तस्मिन्नानासलिलातपकुसुमाघषयवयोगाच्छीतोष्णसौरभादिमतीतिः । स च त्वगिन्द्रियाप्यायकत्वेनोपकरोति । तस्य शब्दस्पर्शी गुणौ। तत्र शरीरधारणादिहेतुर्वायुविशेषः प्राणसंज्ञकः पञ्चमकारः प्राणापानव्यानो. दानसमानभेदात् । हृदि प्राणः, गुदेऽपानः, सर्वशरीरगो व्यानः, कण्ठ उदाना, नाभिदेशे समानः इति नियमः । जङ्गमेष्विव स्थावरेणुं प्राणसंबन्धस्तुल्य एव । स च स्पर्शनप्रत्यक्षः । एतेनानुमेयवादनिरासः। षयवत्वहेतुरपि स्वरूपासिद्ध एव । पञ्चीकरणप्रक्रियया सावयवत्वात् । न पृथगिति । नन संयुक्तसंयोगभूयस्त्वाल्पत्वनिबन्धने परत्वापरत्वे व्यापकद्रव्ययोगमन्तरेण कथं स्यातामिति चेन्न । आकाशसंबन्धेनैव तसिद्धेः । कल्प्यमानमपि दिक्तत्वमुपाधि. योगेनैव परत्वापरत्वे जनयतीति तादृशोपाधियोगेनाऽऽकाशस्यैव परत्वादिसिद्धो पर्यासत्वात् । विशिष्टस्पर्कोति । इमं रूपादावतिव्याप्तिवारणाय । पृथिव्यामतिव्याप्तिवारणाय विशेप्यदलम् । वायुविशेष इति । न तु वायुमात्रम् । ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुयोतिराप' (मुं० २०१०) इति सृष्टिवाक्ये वायुप्राणयोः सहपाठात् । नापि वायुक्रिया । प्राणः स्पन्दत इति प्रयोगात् । अत्र प्राणक्रिययोभेदेन व्यपदेशात् । स्थावरेषु । लतावृक्षादिषु । मूलनिषिक्तसलिलदोहदपार्थिवधातूनामभ्यादानादिति भावः । नखरोमदन्तकिणादीनामपि मन्दप्राणाश्रयत्वं न्यायतत्त्वे प्रतिपादितम् । स्पर्शनप्रत्यक्ष इति । पर्शनप्रत्यक्ष रूपवत्वस्याप्रयोजकत्वात् । एतेन पञ्चीकरणप्रक्रियया वायौ रूपतत्त्वेऽपि तस्यानुद्तत्वान्न तत्प्रत्यक्षमित्यपास्तम् । अत्रे बोध्यम् ---वायोः स्वभावाददृष्टात्मकेश्वरसंकल्पाद्वा स्वारसिकं तिर्यक्प्रसरणम् । पार्थिवादिद्रव्येण वाम्वन्तरेण वाऽभिघातवशाहमणोधगमनादयः । ते च दूरस्थेन तृणरज्जु. . प्रभृतीनां भ्रमणोर्ध्वगमनादिभिरनुमेयाः । तत्रत्येन तु स्पर्शनग्राह्याः । एतेन वायो. नानात्वमपि सिद्धम् । अस्य च सर्वतः पार्थिवाप्योपरोधे सति स्तम्भा भवतीति न्यायसिद्धाञ्जने स्पष्टम् । १ घ. प्राणादिसं। २ घ. 'ति । ज°। 3 क. ख ग. भेषु स्था। ४ क. ख. ग. 'षु च प्रा। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126