Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
पतीन्द्रमतदीपिकाभूतस्या स्वभौगतोऽर्थान्तरं चतुर्णा भूतानां भागसमुच्चय इति भवति । सथा च स्वभागस्य भूयस्त्वात्परभागस्याऽऽल्पीयस्त्वाञ्च पृथिव्यादिव्यपदेशः। वेदे त्रिवृत्करणोपदेशस्तु पञ्चीकरणस्याप्युपलक्षणम् । भूतैः साकं महदहंकारी मिलित्वा सप्तीकरणमित्यप्याहुः। एतेषु चतुर्विशतिसंख्याकेषु पञ्च. भूतानि प्रकृतिमहदहंकाराच शरीरोपादानानि । एकादशेन्द्रियाणि प्रत्येकमसंख्यातानि प्रतिपुरुषं भिमानि । आभरणार्पितरत्नानीव शरीरमाक्रम्य तिष्ठन्ति ।
शरीरं नाम चेतनं प्रत्याधेयत्वविधेयत्वशेषत्वनियमैरपृथसिदो द्रव्यविशेष इत्येके लक्षणम् । नियमेन यदाधेयं नियमेन यद्विधेयं नियमेन यच्छेषमिति पञ्चधा विभक्तानां मागानां पञ्चवर्धान्तरेषु योजनमित्यपास्तम् । वेदे । ' तासां त्रिवृतं त्रिवृतमेकैकां करवाणि '[छा. ९२२इत्यादौ । चतुर्विशतिसंख्याकेषु । प्रकृतिमहदहंकारैकादशेन्द्रियपञ्चतन्मात्रपचमहाभूताख्येषु ।
शरीरमिति । आधेयत्वमाश्रितत्पम् । विषेयत्वं नियाम्यत्वम् । शेषत्वमङ्गत्वम् । अपृथक्सिद्ध इति.। यावत्सत्तमसंबन्धानहत्वमपृथसिद्धत्वम् । नियमेनाऽऽधेयत्वं नियमेन विधेयत्वं नियमेन शेषत्वमित्येतेऽपृथक्सिद्धेरवान्तरभेदाः । एक लक्षणमिति । अस्मिन्पक्ष आधेयत्वविधेयत्वशेषत्वेष्वन्यतमेनैव सिद्ध इतरद्वयोच्चारणं व्यर्थमिति व्यवच्छेद्यपरिक्लेशः। इत एव वाऽरुचेराह-नियमेनेति । अत्रायं निष्कर्षः-यस्य चेत. नस्य यदवस्थं द्रव्यं यावत्सत्तमसंबन्धानह स्वशक्ये नियन्तव्यस्वभावं तदवस्थं तस्य शरीरमिति प्रथमलक्षणम् । चेतनस्येत्यस्य चैतन्यविशिष्टस्येत्यर्थः । तेन चैतन्यस्य तत्तदाश्रयं प्रति शरीरत्वव्यवच्छेदः । यदवस्थमित्यव्याप्तिपरिहारः । तस्यैव द्रव्यस्याव. स्थान्तरे वियोगात् । द्रव्यमिति क्रियादिव्यवच्छेदः । यावत्सत्तमित्यादिना जीवं प्रति परकायप्राणेन्द्रियकुठारादिव्यवच्छेदः । प्राणादीनां हि पृथगेव सृष्टानां शरीर. निर्माणात्पूर्वभावात् । तथा मोक्षात्पश्चादपि तेषामाप्रलयावस्थानात् । स्वशक्य इत्य. संभवपरिहारः । न हि विहङ्गमसाध्यं विहायोगमनं मानुषमृगसरीसृपादिशरीरस्य शाक्यम् । न च तावता तेषामशरीरत्वम् । नियन्तव्येत्यनियन्तव्यव्याध्यादिव्यवच्छेदः । व्याध्यादीनां ज्वराद्यात्मिकानां तदीयत्वात् , स्वशक्ये प्रवर्तमानत्वाच्च । एवं पुत्रशरीरादीनामपि स्वभावशब्देनाव्याप्तिपरिहारः । व्याध्यादिदशायां स्वशक्येऽप्यशक्यनियमनाना मानुषशरीरादीनामपि शरीरत्वात्तदानीमेतस्याशक्यनियमनत्वस्यौपाधिकत्वात् । यस्य पतनस्य पदवस्थं द्रव्यं यावत्सत्तं धार्य तदवस्थं तस्य शरीरमिति द्वितीयं क्षणम् । पुत्रशरीरादिकं न यावत्सतं धार्यमिति व्यवच्छिद्यते । शेष प्राग्वत् । यस्य चेतनस्य यदवस्थं द्रव्यं यावत्सत्तमशेषतानहं तदवस्थं तस्य शरीरमिति तृतीयं लक्ष.
१५. भागोऽर्षा।
For Private And Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126