Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता।
४३ अस्याष मनोप्राणाप्यायकत्येनोपकारकत्वम् । मृत्पाषाणानौषधादिबहुपकारखती शब्दस्पर्शरूपरसगन्धगुणका भारणोतुश्च । तपसः पृथिव्यामन्तर्भावः । नागुणवात्तदरस्थान्तरत्वादा । अत एवाऽऽलोकाभावमा द्रव्यान्तरं वेत्यादिपक्षा निरस्ता। __ भूतेषु सर्वच पञ्चीकरणप्रक्रियया शब्दादीनां गुणानामुपलम्मा । पशीकरणपक्रिया तु भगवानभूतानि सृष्ट्वा, एकैकमेव भूतं द्विधाउत्स द्वयोर्भागयोः स्वभागमेकं निधाप भागान्तरं चतुर्धाकृत्य ताश्चतुर्भागान्भूतान्तरेषु चतुर्पु योजयति । एवं सर्वेषु भूतेषु क्रियमाणेष्वेकैकस्य सलिलातपादियोगादेव । तदुणत्वादिति । तस्याः पृथिव्या मुणो नीलवर्णस्तद्विशिएत्वात् । तदवस्थेति । तमसः प्रकृतिविशेषावस्थत्वेन वायुपर्यन्तेषु प्राकृतपदार्थेषु रूपामावेन तोयतेनसोनीलरूपाभावेन च पारिशेप्यापार्थिवत्वं सिद्धम् । प्रयोगश्चतमो द्रव्यं पापिवं च । अबांधितनीलादिप्रत्ययविषयत्वात् । घटादिवत् । न च रूपिप्रत्यक्ष आलोकसहकृतचक्षुषः कारणत्वदर्शनात्तमःप्रत्यक्षे तदभावान्न तमसो रूपिद्रव्यस्वमिति वाच्यम् । न हि यत्क्वचिद्यदपेक्षं तत्सर्वत्र तदपेक्षमिति नियमः । स्वेदादिशैस्यग्रहे वायुसापेक्षस्य स्पर्शनस्यौप्ण्यग्रहे. तदभावसापेक्षत्वात् । आलोकाभावमात्रमिति । काश्यपीयानामयं पक्षः। परं तु स न संभवति । तथा सत्यन्धस्योलूकादीनां चाऽऽलोकसत्त्व एवान्धकारप्रतीतिर्जायते सा न स्यात् । अमावस्य प्रानिरस्तत्वाच । अमावस्वरूपत्वे गाढत्वविरलत्वाद्यनुपपत्तेश्च । ' तमः ससर्ज भगवान् ' इतिश्रुतिविरोधश्च । एतेन रूपदर्शनामावमात्रं तम इत्यपि निरस्तम् । द्रव्यान्तरमिति । कौमारिलैरङ्गीकृतोऽयं पक्षः । स च गौरवादेव निरस्तः । इत्यादीति । आदिना नीलगुणमात्रं तम इति पक्षसंग्रहः । अयं च पक्षो नीलमितिर्मितया स्फुरणान्निराधारनैल्योपलम्मायोगाच्च निरस्तः । न च तमसः पार्थिवत्वे तस्य तेजोगत्यागत्यनुविधानं कथा मिति वाच्यम् । यथादृष्टि स्वभावव्यवस्थापनात् । यथाऽयस्कान्तस्थितिगत्यनुविधान पृथग्द्रव्यस्याप्ययसो दृश्यते तद्वत् । न च तमसः पार्थिवत्वे तयवहितस्य प्रकाशस्थस्य घटादेः कथं प्रत्यक्षमिति वाच्यम् । जलादेरिव तमसः खभावादेव दृग्गतेरविरुद्धत्वात् ।
पञ्चीकरणति । तत्र भूतेष्वाकाशोऽवकाशहेतुः । वायुर्वहनादिहेतुः । तेजः पच. नादिहेतुः । जलं सेचनपिण्डीकरणादिहेतुः। पृथिवी धारणादिहेरिति तत्वत्रय उक्तम् । चतुर्धाकृत्येति । तदुक्तं तत्त्वमुक्ताकलापे-द्वेधा भूतानि-मित्वा पुनरपि च मिनत्यमेकं चतुर्धा तैरेकैकस्य भागैः परमनुकलयत्यर्धम चतुभिरिति । एतेन
For Private And Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126