Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकाशसहिता ।
प्रत्यक्षचाधश्च । केचित्तु पडिन्द्रियवेद्यः काल इत्यप्याहुः । तेनानुमेवषाद
. निरासः । इति कालो निरूपितः ॥
इतिश्रीबाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां कालनिरूपणं नाम पञ्चमोऽवतारः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ षष्ठोsवतारः ।
अथ नित्यंविभूतिर्निरूप्यते - शुद्धसत्त्वधर्मभूतज्ञान जीवेश्वरसाधारणं लक्षणमजडत्वम् । अजडत्वं नाम स्वयंप्रकाशत्वम् । तत्र शुद्धसम्वधर्मभूतज्ञानसाधारणलक्षणं पराक्त्वे सत्यजडत्वम् । तत्तु स्वयंप्रकाशत्वे सति परस्मा एव भासमानत्वम् ।
अथ षष्ठोऽवतारः ।
५१
कालः संपच्यते तत्र न कालस्तत्र वै प्रभुरित्युक्तत्वात् । षडिन्द्रियेति । क्षणमयं तिष्ठतीत्यादिप्रकारेण तत्तदर्थविशेषणतया प्रतीतेः । नीरूपस्यापि रूपादेरिव प्रत्यक्षविषयत्वमिष्टमेव । अनुमीयमानस्तु न विशेषणम् । न हि वह्निमनुमाय वह्निमान्पर्वत इति प्रत्यक्षं भवति । किंच प्रत्यक्षप्रतीतौ विशेषणतया दृश्यमानस्य कालस्यानुमेयत्वे प्रत्यक्षज्ञानविषयीभूतानां घटादिपदार्थानामप्यानुमानिकत्वं प्रसज्येतेति सौत्रान्तिकवादप्रसङ्ग इति बोध्यम् ॥
1
इति श्री यतीन्द्र मतदीपिकाप्रकाशे पञ्चमोऽवतारः ।
For Private And Personal Use Only
नित्यविभूतिरिति । इयमेव शुद्धसत्त्वशब्देन व्यवह्नियते । शुद्धं सत्त्वं यत्रेत्य • र्थात् । पराक्त्वे सतीति । धर्मभूतज्ञानस्येव शुद्धसत्त्वस्यापि परस्मै भासमानत्वात्परा - क्त्वम् । बन्धकाले तु शुद्धसत्त्वं न प्रकाशते । सुषुप्तौ धर्मभूतज्ञानवत् । अजडत्व - मिति । ननु प्रसिद्धशास्त्रेषु तावदजडत्वं शुद्धस्य सत्त्वस्य न पश्यामः । अथ रहस्यागमवाक्यविशेषैस्तदेिष्येत तर्हि षाड्गुण्यमयत्वमपि तस्येष्टव्यम् । तथा च चेतनत्वप्रसङ्गः । अतस्त्रिगुणविभूतेरिवास्या नित्यविभूतेरपि जडत्वमेवेति चेदत्र केचित् — निःशेषाविद्यानिवृत्तिहेतुतया निरुपाधिकज्ञानविकासस्थानतया वा आयुर्धृतमितिवज्जडेऽप्यजडत्वोपचार इति । वस्तुतस्तु किमात्मिकैषा भगवतो व्यक्तिरिति प्रश्ने

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126