Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता। परिच्छिन्ना । अचेतना स्वयंप्रकाशा च । आनन्दावहत्वादानन्दनामिका । पञ्चोपनिषन्मत्रप्रतिपाद्यतया पञ्चोपनिषदात्मिका । अमाकृतपञ्चशक्तिमनया पश्वशक्तिमयेति निगद्यते । __सा विभूतिरीश्वरस्य नित्यानां मुक्तानां चेश्वरसंकल्पाद्भोग्यभोगोपकरणभोगस्थानरूपा च भवति । भोग्यमीश्वरशरीरादि । भोगोपकरणं चन्दनकुसुमपलभूषणायुधादीनि । भोगस्थानं तु गोपुरपुरमाकारमण्डपविमानोद्यानपबिन्यादिकम् । तत्रेश्वरस्य नित्यानां च शरीराणि भगवन्नित्येच्छासिद्धानि । मुक्तानी शरीराणि तेषां पित्रादिसृष्टियुगपदनेकशरीरपरिग्रहा इत्यादीनि भगवत्संकल्पादेव भवन्ति । भगवतो व्यूहविभवार्चावतारशरीराण्यप्यमातमयानि । अर्चावतारेषु प्रतिष्ठानन्तरं प्रसादोन्मुखेश्वरसंकल्पाधीनमप्राकृत. शरीरैमात्रमाविर्भवति । प्राकृतामाकृतसंसर्गः कथमिति न शङ्कनीयम् । श्रीरामकृष्णाद्यवतारशरीरवदिति प्रमाणानुसारेण परिहारो द्रष्टव्यः ।
प्रदेशेनाऽऽनन्त्यं केनचित्प्रदेशेन च तमःपरत्वमगत्या कल्प्यत इत्याशयः । स्वयंमकाधोति । केचित्त निरतिशयदीप्तियोगादस्याः स्वयंप्रकाशत्वव्यपदेशः । एवमेवात्यन्तानुकूलरूपरसगन्धादियोगादानन्दव्यपदेश इत्याहुः ।
भोग्यति । इयं च नित्यमुक्तेश्वराणामिच्छानुरूपशरीरेन्द्रियप्राणविषयरूपेणावतिष्ठते।
इन्द्रियच्छिद्रविधुरा धोतमानाश्च सर्वशः। इति वचनं तु कर्मकृतेन्द्रियाभावपरम् । 'अशरीरं वाव सन्तम् ' (छा. ११२॥ १) इत्यादिषु कर्मकृतशरीरादिप्रतिषधवत्। तत्र कानि चिच्छरीराणि नित्यादीनामीश्वरस्य च नित्येच्छापरिग्रहान्नित्यानि । कानि चिदनित्येच्छापरिग्रहादनित्यानि । मुक्ताश्च कदाचिदशरीराः कदाचिच्च सशरीरा इति भाष्यम् । इन्द्रियाणि तु तत्रत्यानि सर्वाण्यपि नित्यानि । तत्र व्योमादिवदेवोपादाननिरपेक्षत्वात् । तत्र कानि चिन्नित्यैरीश्वरेण च. नित्यपरिगृहीतानि । मुक्तानां तु तत्परिग्रहः शरीरवत्कादाचित्क एवेति बोध्यम् । नित्यविभूतिरपि त्रिगुणवच्चतुर्विंशतितत्त्वात्मिका । किं त्वेषां तत्त्वानां न प्रकृतिविकृतिभावः । दिव्यमङ्गलविग्रहादेनित्यत्वश्रवणादिति केचित् ।
१ घ. मयतया । २ घ. 'मयीति'। ३ घ. या । मुकानामीश्व। ४ प. नां तें'। ५ क. 'कतानि । ६. 'रमत्रादि ।
For Private And Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126