Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकाशुद्धसत्वं नाम त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सवयत्त्वं निःशेषाविद्या. नित्तिदेशविजातीयान्यत्वम् । सा विभूतिरूव॑प्रदेशेऽनन्ता । अधःप्रदेशे
यदात्मको भगवानिति प्रतिवचनात्किमात्मको भगवानिति पुनः प्रश्ने ज्ञानात्मक इत्युक्तत्वाज्ज्ञानात्मकत्वेन मुख्यमेवाजडत्वमस्याः ।
__ स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम् । इत्युपबृंहणस्वारस्याच्च । नन्वियं नित्यविभूतिः प्राकृतत्रिगुणमय्येवेत्यनित्यैव । नित्यत्वं त्वापेक्षिकम् । अत एव ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति कारणवाक्य एकत्वावधारणमुपपद्यते । नित्यविभूतेनित्यत्वे तु जगत्कारणस्य सद्विसीयत्वापत्तिः। शुद्धसत्त्वव्यवहारस्तु रजस्तमसोरभिभूततयाऽप्युपपद्यत इति चेन्मैवम् । श्रुतावेकत्वावधारणं स्रक्ष्यमाणव्यपेक्षम् । सृष्टि कालापेक्षया स्रक्ष्यमाणस्य जगत उपदेशकालापक्षयदेकारगोचरस्य प्रलयदशायामविभक्तनामरूपतयैकत्वमवधार्यते । तथाचोक्तं संवित्सिद्धौ
यथा चोलनृपः सम्राडद्वितीयोऽद्य भूतले । इति तत्तुल्यनृपतिनिवारणपरं वचः ॥
न तु तद्भूत्यतत्पुत्रकलत्रादिनिषेधकमिति । अवश्यं चैतत्सर्वैरभ्युपेयम् । अन्यथा मायावादिमतेऽप्येकत्वावधारणेन प्रलये मायाया विलयापत्तिः । औपाधिकमेदवादिमते चोपाध्यंशप्रध्वंसः स्यात् । याद मायोपाधिविलयस्तैरभ्युपगम्येत तार्ह ब्रह्मणस्तदुपहितत्वामावेन विश्वप्रसूत्यमावादनुपहितस्य जगत्कारणत्वानभ्युपगमात्कारणवाक्यं दत्तनलाञ्जलि स्यादित्यव. धेयम् ।
शुद्धसत्वं नामेति । तमोरहितत्वे सति सत्त्ववत्वमित्यपि लक्षणं बोध्यम् । शुद्धसत्त्वे प्रमाण तु 'आदित्यवर्ण तमसः परस्तात् ' (श्वे. ३ । ८) यो अस्याध्यक्षः परमे व्योमन् ' ( ० ब्रा० २।८।९ )' सहस्रस्थूणे विमिते दृढ उने यत्र देवानामधि देव आस्ते' ' तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः' (मृ० पू० ५ । १०) इत्यादिश्रुतयः । तद्विष्णोरित्यत्र व्यतिरेकनिर्देशबलात्स्वरूपादेदे सिद्धे पदशब्दस्वारस्यात्सदा दृश्यत्वबलाच सदा पश्यदनेकद्रष्टविशिष्ट स्थानविशे. पावीधारीत विशिष्टविधिोध्यः । तच्चाऽऽकाशं सनातनमिति रामायणं दिव्यं स्थानमनरं चाप्रमेयमिति महामारतं चात्र प्रमाणम् । अनन्तेति । श्रुतौ नित्यविभूतेरानन्त्यस्य तमःपरत्वस्य च प्रतिपादनेनाऽऽनन्त्यतमःपरत्वयोविरुद्धयोरेकत्र समावेशाय केनचि
१ घ. वृत्तदै ।
For Private And Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126