Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५०
यतीन्द्रमतदीपिका
1
रादिव्यपदेशहेतुश्च । मनुष्यमानेन मासः पितॄणां दिनम् । तेषाममावास्यो सु मध्याह्नम् | मनुष्यमानेन वत्सरो देवानां दिनम् । तेषामुत्तरायणमहः । दक्षिणायनं रात्रिः । एवं देवमानेन द्वादशवर्षसहस्रसंरूपाकं चतुर्युगमित्युच्यते । तत्र चतुःसहस्रवर्षसंख्याकं कृतयुगम् । तत्र पूर्णो धर्मः । त्रिसहस्रवर्षसंख्याकं त्रिपाद्धर्मवत्त्रेतायुगम् । द्विसहस्रवर्षपरिमितं सार्धपादधर्मवद्वापरम् । सहस्रवर्ष संख्याकपेकपादधर्मसंयुक्तं कलियुगम् । एतेषां संधिर्द्विसहस्रसंख्याकः । एवं चतुर्युगसहस्राणि ब्रह्मणो दिवसप्रमाणमुच्यत इत्युक्तरीत्या चतुर्युगसहस्राणि ब्रह्मणो दिवसमात्रप्रमाणकमेव । एवं रात्रिरपि ।
Acharya Shri Kailassagarsuri Gyanmandir
3
ब्रह्मणोऽह्नि चतुर्दश मनवो जायन्ते । इन्द्रा अपि तथैव । तथा सप्तर्षयश्च । एकैकमनोरेकसप्ततिचतुर्युगपरिमाणः कालः । एवं ब्रह्ममानेन ब्रह्मणः शतवर्षजीवितम् । एतत्सर्वं कालाधीनम् । एवं नित्यनैमित्तिकप्राकृतप्रलया अपि कालाधीनाः । कालस्य स्वकार्ये प्रति स्वस्योपादानत्वम् । अखण्डकालो नित्यः । कार्यः पुनरनित्यः । एवंभूतः काल ईश्वरस्य क्रीडापरिकरो भवति । लीलाविभूतावीश्वरः कालाधीन एव कार्य करोति । नित्य विभूतौ तु कालस्य विद्यमानत्वेऽपि तस्य न स्वातन्त्र्यम् । केचित्तु तत्र कालो नास्तीति वदन्ति । अन्ये तु तामसमहान्काल इति । उभयेषामागमबाधः ।
-
प्रसिद्धः । पञ्चदश निमेषाः काष्ठा । त्रिंशत्काष्ठाः कला | त्रिशत्कला मुहूर्तम् । मुहूर्तानि त्रिंशदिवसः । त्रिंशदिवसाः पक्षद्वयरूपो मासः । द्वौ मासावृतुः । ऋतव स्त्रयोऽयनम् । अयने द्वे संवत्सरः । एतेषां संधिरिति । कृतयुगस्य पूर्वसंविश्वत्वारि शतानि वर्षाणि । अपरसंधिरपि तथैव । त्रेतायुगस्य पूर्वसंवित्रीणि शतानि । अपरसंधिरपि तथैव । द्वापरस्य पूर्वसंधिद्वे शते । अपरसंधिरपि तथैव । कलियुगस्य पूर्वसंधिः शतम् । अपरसंधिरपि तथैवेति संकलनया द्विसहस्रसंख्या संपद्यते ।
चास्य
कार्यः । निमेषादिरूपः । क्रीडापरिकर इति । निखिलजगदुत्पत्तिस्थितिलयलीलस्य सर्वेश्वरस्यायं कालो लीलोपकरणमित्यर्थः । सहकारित्वेन लीलोपकरणत्वम् । ईश्वरेण सृष्ट्यादिनिर्वाहसमये सत्यसंकल्पेन स्वेन कृतस्य कालनियमस्यानुसारेण तत्तत्कालागमनं प्रतीक्ष्य निर्वहणात् । अयं च निमेबकाष्ठादिरूपेण परिणामात्सृष्टिविषयोऽपि भवतीति बोध्यम् । लीलाविभूताविति । बैकुण्ठातिरिक्त सृष्टिींलाविभूतिः । वैकुण्ठ सृष्टिर्नित्यविभूतिः । न स्वातन्त्रयमिति ।
१ घ. या मध्यान्ह: । म । २ क. 'तं द्विपादध । ३ घ विश्वम् । ४ अन्ये तु इत्यारभ्य बाध इत्यन्तः पाठः क. घ. पुस्तकयोर्न दृश्यते ।
For Private And Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126