Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ यतीन्द्रमतदीपिका। एवं नववर्षयुक्त जम्बूद्वीपं लक्षयोजनविस्तीर्ण समपरिमाणेन झवणसागरे। णाऽऽतम् । स सिंधुर्द्विगुणेन सप्तवर्षात्मकेन प्लक्षद्वीपेन पेष्टितः । सोऽपीभुसमुद्रेण । सोऽब्धिा शाल्मलिद्वीपेन । स पुनः सुरासमुद्रेण । स कुशद्वीपेन । स सािसमुद्रेण । सोऽपि क्रौञ्चद्वीपेन । स दध्यर्णवेन । सोऽपि शाकद्वीपेन बेष्टितः । स क्षीरार्णवेन । स वर्षद्वयविभाजकवलयाकारमानसोत्तरपर्वतसहितेन पुष्करद्वीपेन । स शुद्धजलार्णवेन । एवं द्वीपानामुत्तरोत्तरद्वैगुण्यं द्रष्टव्यम् । प्लक्षद्वीपादिपञ्चसप्तवर्षात्मका: सप्तद्वीपात्मकोऽयं द्विगुणीकृतया काञ्चनभूम्या वृतः। काञ्चनभूमिस्तु लोकालोकपर्वतेन । पर्वतस्त्वन्धतमसा । तदन्धतमो गोंदकेन । तदण्डकटाहेन । एवं भूमेरधोऽतलवितलरसातलतलातलमहातलसुतलपातालभेदात्सप्त लोका अधो नारकास्ते च पापकर्मणां पापानुभवभूमयः । रौरवाचा मुख्यतयैका विंशतिप्रभेदाः । ततस्तमः । ततो गोंदकम् । अनन्तरमण्डकटाहः । __ एवं भूमेरुपरि लक्षयोजनात्सूर्यमण्डलम् । तदेव भुवर्लोकः । तदुपरि चन्द्र. मण्डलम् । तस्मादुपरि नक्षत्रबुधशुक्राङ्गारकबृहस्पतिशनिसप्तर्षिमण्डलानि । तदुपरि ध्रुवः । सूर्यमण्डलमारभ्य ध्रुवलोकपर्यन्तं स्वर्लोकः । चतुर्लक्षातुपरि कोटियोजनोच्छ्रायो महर्लोकः । तस्माद्विगुणो जनलोकः । ततश्चतुर्गुणस्तपो. 'भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः । ' ( २।२।९) ' भारतं प्रथम वर्ष ततः किंपुरुषं स्मृतम् । हरिवर्ष तथैवान्यन्मेरोदक्षिणतो द्विज ॥ रम्यकं चोत्तरं वर्ष तथैवान हिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ' ( २।२।१२-१३) द्वीपमण्डलप्रान्तवर्तित्वाद्भारतवर्षवद्धनुराकारं कुरुवर्षमित्यर्थः । · भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् ।' (२।२।२३) ' नववर्ष तु मैत्रेय जम्बूद्दीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥ जम्बद्वीपं समावृत्य लक्षयोजनविस्तरः । मैत्रेय वलयाकारं स्थितः क्षारोदधिबहिः ' ( २।३।२७।१८) इत्यादिविष्णुपुराणे द्वितीयांशे स्पष्टमिति तत एवावधार्यताम् ।। इति श्रीयतीन्द्रमतदीपिकाप्रकाशे चतुर्थोऽवतारः ॥ ४ ॥ १ ख. त्मिका: । २ घ. यन्तः स्व। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126