Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशसहिता । १७ वस्थाप्रहाणेन विजातीयावस्थान्तरप्राप्तौ तत्त्वान्तरव्यपदेशः पृथिवीपर्यन्त एव । इत्थं प्रकृतिमहद हंकारेकादशेन्द्रिय तन्मात्र पश्चक भूतपश्चकविभागेन चतुर्विंशतितत्वानि वर्णितानि । एतेन न्यूनाधिकसंख्या कतश्ववादिनो बाह्याः पाशुपताच निरस्ताः । परमाणुका रणत्ववादिनोऽपि निरस्ताः । Acharya Shri Kailassagarsuri Gyanmandir प्रकृत्यादष ईश्वरस्य जीवस्य च भोग्यभोगोपकरणभोगस्थानानि च भवन्ति । भोग्यं विषयाः । भोगोपकरणं चक्षुरादिकरणानि । भोगस्थानानि चतुर्दश भुवनान्तर्वर्त्यण्डजातानि । अण्डं नाम कपित्थफलाकारं पञ्चीकृतपञ्चभूतारब्धं प्राकृतद्रव्यम् । तद्यथा - पद्माकारा भूः । कर्णिकाकारो मेरुः । मेरोर्दक्षिणतो भारत किंपुरुषहरिवर्षाणि त्रीणि । उत्तरतो रम्यकहिरण्यककुरुवर्षाणि त्रीणि । पुरतो भद्राश्ववर्षम् । पश्चात् केतुमालाख्यं वर्षम् । मध्ये खिलानृतम् । • नानावीर्याः पृथग्भूतास्ततस्ते संहति विना । 1 नाशक्नुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥ इति । ततख यथा कश्चिन्मृज्जलादीन्मेलयित्वैकं द्रव्यं कृत्वा भित्तिं करोति तथेश्वर एतत्सर्व मेलयित्वा तैरेकमण्डं सुनतीति भावः । न्यूनाधिकेति । शून्यमेव तत्त्वमिति शून्यवादिनो बौद्धाः । अशेषविशेषप्रत्यनीकं चिन्मात्रं ब्रह्मैकमेव तत्त्वमिति मायावा दिनः । स्वतन्त्र स्वतन्त्रभेदेन द्विविधं तत्त्वमिति पूर्णप्रज्ञाचार्याः । पृथिव्यादीनि चत्वारि भूतानि तस्वानीति चावीकाः । प्रकृत्यादीनि चतुर्विंशतिसंख्याकानि तत्त्वानि जीवन सह पञ्चविंशतिरिति निरीश्वरसांख्याः । ईश्वरेण सह पडूविंशतिरिति सेश्वरसांख्याः । एते सर्वे निरस्ता इत्यर्थः । पाशुपतमतं च सर्वदर्शनसंग्रहादवसेयम् । परमाणुकारणस्वेति । नैयायिकाः परमाणूनामुपादानकारणत्वं वदन्ति । तत्र किं परमाणवः सावयवा निरवयवा वा | आधे तेषामप्यवयवानां सावयवत्वमित्यनवस्था । अन्त्ये परमाणूनां मिथः संयोग एव न संभवति । संयोगो हि किंचिदंशावच्छेदेनैव भवति । इतरथा सर्वेषु परमाणुष्वेकपरमाणु प्रदेशमात्रावस्थितेषु स्वाधिकदेशव्यापि कार्यारम्भो न स्यात् । अवयवास्पृष्ठे प्रदेशेऽवयविनः स्थितेरदर्शनात् । न चावयवनाशादवयविनाशे क्षणम नाधारोऽवयवीति वाच्यम् । तथा कल्पनायामपि पूर्वं तन्तुसंत्रानवच्छिन्नप्रदेशे पटस्य वृत्तेरकल्पनात् । तथा च व्यणुकाद्यारम्भानुपपत्तौ मेरुसर्षपादिविचित्र भेदासिद्धिः । किं च दिग्भेदेन परमाणूनां सावयवत्वावश्यमावेन निरवयवत्वं दुर्वचमिति बोध्यम् । पद्माकारेति । तदुक्तं विष्णुपुराणे - १. "स्थाप्रा । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126