Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता । १५ लक्षणत्रयं वा योज्यम् । ईश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं शरीरमिति बा तटस्थलक्षणम् । एतेन चेष्टाश्रयं शरीरम् इन्द्रियाश्रयं शरीरम्, भोगाय - वनं शरीरम्, शिरःपाणिपादादिमयं शरीरम्, इत्यादीनि परोक्तानि शरीरलक्षणानि निरस्तानि । " णम् । अशेषतानर्हमिति पूर्ववदेव पुत्रादिव्यवच्छेदः । दानादिना तेषां स्वशेषस्वनिवर्तनस्य शक्यस्यात् । शरीरस्य तु दासत्वाचापादनेन परशेषत्वेऽपि सांसिद्धिकस्य स्वस्वशेषस्वस्य निवर्तयितुमशक्यत्वादिति न्यायसिद्धाने स्पष्टम् । न च शिलाकाष्ठा - दिव्यव्याप्तिः । तत्रापि स्वरूपतरचैतन्यसत्वात् । शिलादिशरीरिणोऽपि जीवा विद्यन्त इत्यहश्यादिवृत्तान्तश्रवणात्सिध्यति । अत एव वेदार्थसंग्रहे शिला काष्ठादिशब्दानामपि तदन्तर्यामिजीव तदन्तर्यामिपरमात्मपर्यन्तार्थवाचकत्वमुक्तम् । लक्षणश्रयेऽपि शरीरस्वस्य पुत्रत्वादिवत्स प्रतियोगित्वमेव । तटस्थलक्षणमाह - ईश्वरेति । ईश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं 'जीवनित्यविभूतिप्रकृतिकाल' एतच्चतुष्टयम् । अस्मिलक्षणे शिक्षा काष्ठादिष्वव्याप्तिशङ्काऽपि नेति बोध्यम् । नैयायिकायुक्तं खण्डयति - एतेनेति । ईश्वरतज्ज्ञानव्यतिरिक्त सर्वद्रव्येषु शरीरत्वस्येष्टत्वेनेत्यर्थः । किंच चेष्टाशब्देन क्रियामात्रविवक्षायां घटादिष्वतिव्याप्तिः । प्रयत्नवदात्मसंयोगासमवायिकारणक क्रियावि वक्षायां प्रयत्नवदीश्वरसंयोगासमवायिकारण कक्रियाश्रयेषु भूधरादिष्वतिव्याप्तिः । तत्रतैः शरीरत्वस्यानभ्युपगमात् । प्रयत्नवज्जीवेति विशेषणे प्राणादिष्यतिव्याप्तिः । बुद्धिपूर्वकप्रयत्नेति विशेषणेऽपि बुद्धिपूर्व काकुञ्चनप्रसारणादिदशायां तेष्वेवातिव्याप्तिः । तथेन्द्रियाश्रयत्वमिन्द्रियसमवायित्वमिन्द्रियसंयोगित्वं वा । नाऽऽयः । शरीरेन्द्रिययोः समवायाभावात् । इन्द्रियावयवानां तन्मते शरीरत्वप्रसङ्गाच्च । नान्त्यः । घटादिव्यपि तत्संभवात् । न च यावत्सत्तमिन्द्रियसंयोगो विवक्षित इति वाच्यम् । अनिमेषचक्षुपि प्रेक्षमाणे पुरुषे तात्कालिकोत्पन्नविनष्ट बुद्बुदप्रभृतिष्यतिव्याप्तेः । तथा भोगायतनत्वं भोगस्थानत्वमात्रं चेत्तदा गृहादिष्वतिव्याप्तिः । न च यदाश्रित्यैवाऽऽस्मा भोगवान्भवति तद्भोगायतनमिति विवक्षितमिति वाच्यम् । असंभवात् । अशरीरस्यापि मुक्तस्य भोगविशेषाभ्युपगमात् । नच दुःखात्मक भोगो विवक्षित इति वाच्यम् । तथाऽपीन्द्रियेष्वतिव्याप्तेः । ईश्वरमुक्तादिभिरिच्छागृहीतशरीरेष्वव्याप्तेश्च । तथा शिरःपाणिपादादिमयं शरीरमित्यपि न लक्षणम् । शिलापुत्रकादिष्वपि तत्संभवात् । न च प्राणादिमत्त्वे सतीति निवेशान्न दोष इति वाच्यम् । मृतशरीरेऽव्याप्तेः । न च यदा कदाचित्प्राणादिसंबन्धमात्रं विवक्षितमिति वाच्यम् । तथाऽपि स्थावरादिशरीरेष्वव्याप्तेः । तेषु प्राणादिसत्त्वेऽपि पाणिपादादिसंस्थानाभावादिति बोध्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126