Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
यतीन्द्रमतदीपिका
शरीरं द्विविधम्- नित्यमनित्यमिति । तत्र नित्यं त्रिगुणद्रव्य काळजीवशुभा श्रवादिकमीश्वरशरीरम् । नित्यसूरीणां च स्वाभाविकै गरुडथुजगादिरूपम् । अनित्यं द्विविधम् । अकर्मकृतं कर्मकृतं चेति । प्रथममीश्वरस्य महदादिकपम् । तथाऽनन्तगरुडादीनां चेच्छागृहीतं तत्तद्रूपम् । कर्मकृतमपि द्विविधम्स्वसंकल्प सहकृतकर्मकृतं केवलकर्मकृतं चेति । पूर्व महतां सौभरिप्रभृतीनामुत्तरं चान्येषाम् । पुनः सामान्यतो द्विविधम् । स्थावरजङ्गमभेदात् । स्थावराः शिलावृक्षगुल्मलतादयः । जङ्गमाश्चतुर्षा । देवमनुष्य तिर्यङ्गारकिभेदात् । उद्भिज्नस्वेदजजरायुजाण्डजभेदा अपि विभागजधर्माः । अयोनिजशरीराण्यपि सन्ति ।
एवं पञ्चीकृतनां भूतानामेषाण्डोत्पादकत्वम् । अण्डोस्पादनात्पूर्वसृष्टिः समष्टिसृष्टिः । अनन्तरसृष्टिर्व्यष्टि सृष्टि: । महदादीनामुत्पत्तिर्नाम तालीयपलाशताटङ्कन्यायेनावस्थान्तरापत्तिरेव । सेनावनराश्यादिव्यवहारवत् । पूर्वापरावस्थाविशेषसंबन्धपात्रेण कार्यकारणभेदव्यवहारः । तत्र पूर्वा
E
B
शुभाश्रयेति । ' आदित्यवर्णम् ' ( श्वे० ३।८ ) इत्यादिश्रुतिप्रतिपादितमीश्वरशरीरं शुभाश्रयसंज्ञकम् । गरुडादीनामिति । आदिपदेन मुक्तसंग्रहः । देवमनुयेति । असुरयक्षराक्षसादयोऽपि देवयोनयः । भूलोकवतं ब्रह्मक्षत्रियविट्शूद्रादयो मनुष्ययोनयः । मृगपक्षिसरीसृपादयस्तिर्यग्योनयः । नार किणस्तु रौरवादिषु दुःखेकाश्रयदुस्त्यजविग्रहाः । अयोनिजशरीराण्यपीति । एतानि च देवादिषु त्रिष्वपि संभ वन्ति । प्रजापतिमधुकैटभधृष्टद्युम्नैरावतस्वेदजादिदर्शनात् । अत्र व्यष्टिजीवशरीराणामीश्वरं प्रति शरीरत्वं सद्वारकमद्वारकं चेत्येके । सद्वारकं जीवद्वारकम् । तच्चानुमवसिद्धम् । अस्मदादिहस्तपादादीनां जीवद्वारेश्वरनियाम्यत्वदर्शनात् । किं तु सुप्तिमूर्छाद्यवस्थासु स्वाभाविकमीश्वरनियाम्यत्वमेव देहदेहिनो दृश्यते । इदमद्वारक नियमकं सद्वारकमात्रत्वे न स्यात् । अतोऽद्वारकत्वमपि तस्य स्वीकार्यम् । न चाद्वारकत्व एकस्य युगपदनेकं प्रति शरीरत्वमनुपपन्नमिति वाच्यम् । तल्लक्षणयोगेन तदुपपत्तेः । अनेकं प्रति शेषत्वादिवत् । सद्वारकमेवेत्यन्ये । सुषुप्त्यादिषु जीवस्य ज्ञानेच्छारहिसत्वेऽपि तत्सत्तामात्रेण तद्द्द्वारैव देहनियमनात् । दिव्यमङ्गलविग्रहाद्यचित्सु तु शरीरत्वमद्वारकमेव |
पञ्चीकृतानामिति । तदुक्तं विष्णुपुराणे
For Private And Personal Use Only
१ क. 'नित्यसू' । २ ख. घ. 'विक ३ . जादि । घताना मे । ५. घ. • लीप । ६ ख. शेषः सं ।

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126