SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ यतीन्द्रमतदीपिका शरीरं द्विविधम्- नित्यमनित्यमिति । तत्र नित्यं त्रिगुणद्रव्य काळजीवशुभा श्रवादिकमीश्वरशरीरम् । नित्यसूरीणां च स्वाभाविकै गरुडथुजगादिरूपम् । अनित्यं द्विविधम् । अकर्मकृतं कर्मकृतं चेति । प्रथममीश्वरस्य महदादिकपम् । तथाऽनन्तगरुडादीनां चेच्छागृहीतं तत्तद्रूपम् । कर्मकृतमपि द्विविधम्स्वसंकल्प सहकृतकर्मकृतं केवलकर्मकृतं चेति । पूर्व महतां सौभरिप्रभृतीनामुत्तरं चान्येषाम् । पुनः सामान्यतो द्विविधम् । स्थावरजङ्गमभेदात् । स्थावराः शिलावृक्षगुल्मलतादयः । जङ्गमाश्चतुर्षा । देवमनुष्य तिर्यङ्गारकिभेदात् । उद्भिज्नस्वेदजजरायुजाण्डजभेदा अपि विभागजधर्माः । अयोनिजशरीराण्यपि सन्ति । एवं पञ्चीकृतनां भूतानामेषाण्डोत्पादकत्वम् । अण्डोस्पादनात्पूर्वसृष्टिः समष्टिसृष्टिः । अनन्तरसृष्टिर्व्यष्टि सृष्टि: । महदादीनामुत्पत्तिर्नाम तालीयपलाशताटङ्कन्यायेनावस्थान्तरापत्तिरेव । सेनावनराश्यादिव्यवहारवत् । पूर्वापरावस्थाविशेषसंबन्धपात्रेण कार्यकारणभेदव्यवहारः । तत्र पूर्वा E B शुभाश्रयेति । ' आदित्यवर्णम् ' ( श्वे० ३।८ ) इत्यादिश्रुतिप्रतिपादितमीश्वरशरीरं शुभाश्रयसंज्ञकम् । गरुडादीनामिति । आदिपदेन मुक्तसंग्रहः । देवमनुयेति । असुरयक्षराक्षसादयोऽपि देवयोनयः । भूलोकवतं ब्रह्मक्षत्रियविट्शूद्रादयो मनुष्ययोनयः । मृगपक्षिसरीसृपादयस्तिर्यग्योनयः । नार किणस्तु रौरवादिषु दुःखेकाश्रयदुस्त्यजविग्रहाः । अयोनिजशरीराण्यपीति । एतानि च देवादिषु त्रिष्वपि संभ वन्ति । प्रजापतिमधुकैटभधृष्टद्युम्नैरावतस्वेदजादिदर्शनात् । अत्र व्यष्टिजीवशरीराणामीश्वरं प्रति शरीरत्वं सद्वारकमद्वारकं चेत्येके । सद्वारकं जीवद्वारकम् । तच्चानुमवसिद्धम् । अस्मदादिहस्तपादादीनां जीवद्वारेश्वरनियाम्यत्वदर्शनात् । किं तु सुप्तिमूर्छाद्यवस्थासु स्वाभाविकमीश्वरनियाम्यत्वमेव देहदेहिनो दृश्यते । इदमद्वारक नियमकं सद्वारकमात्रत्वे न स्यात् । अतोऽद्वारकत्वमपि तस्य स्वीकार्यम् । न चाद्वारकत्व एकस्य युगपदनेकं प्रति शरीरत्वमनुपपन्नमिति वाच्यम् । तल्लक्षणयोगेन तदुपपत्तेः । अनेकं प्रति शेषत्वादिवत् । सद्वारकमेवेत्यन्ये । सुषुप्त्यादिषु जीवस्य ज्ञानेच्छारहिसत्वेऽपि तत्सत्तामात्रेण तद्द्द्वारैव देहनियमनात् । दिव्यमङ्गलविग्रहाद्यचित्सु तु शरीरत्वमद्वारकमेव | पञ्चीकृतानामिति । तदुक्तं विष्णुपुराणे For Private And Personal Use Only १ क. 'नित्यसू' । २ ख. घ. 'विक ३ . जादि । घताना मे । ५. घ. • लीप । ६ ख. शेषः सं ।
SR No.020949
Book TitleYatindramatdipika
Original Sutra AuthorN/A
AuthorNivasdas, Hari Narayan Apte,
PublisherAnand Ashram
Publication Year1827
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy