Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यतीन्द्रमतदीपिका
वायुतेजसोर्मध्यमावस्थाविशिष्टं द्रव्यं रूपतन्मात्रम् । तस्मात्तेजः । उष्णस्पर्शवस्वभास्वररूपवस्वादिकं तेजसो लक्षणम् । तस्य बहिः पचनादिहेतुस्वमनिसूर्यात्मना । अन्तर्वैश्वानरसंज्ञकजाठराग्मिरूपेण । दिवाभीतादिव्यतिरिक्तानां चाक्षुषज्ञान आलोकादिरूपेण सहकारी भवति । तच्चतुर्धा - भौमदिव्यौद करजभेदात् । तत्र पार्थिवमात्रेन्धनं तेजो भौमम् । तदीपादि । जलपात्रेन्धनं दिव्यम् | तत्सूर्यादि । पार्थिवजलेन्धनमौदर्यम् । तज्जाठरम् । निरिन्धनं तेज आकरजम् । तत्सुवर्णादि । सुवर्णस्य द्रव्यान्तरसंसर्गादुष्णस्पर्शाभावः । पुनः सामान्येन प्रभामभावांश्चेति विभक्तः । आवरणसदसद्भावाधीनसंकोचविकासः प्रसारिततेजोविशेषः प्रभा । सा च प्रभावद्भिः सहोत्पद्यते । सह नश्यति । द्रव्यरूपा गुणभूता सावयवा च । अनेन प्रभायाः केवलगुणत्वमतनिरासः । प्रभाविशिष्टं तेजः प्रभावत् । तच्चतुर्विधमिति प्रतिपादितम्। तत्तेजः शब्दस्पर्शरूपगुणवच्च ।
1
तेजःसलिलयोर्मध्यमावस्थाविशिष्टं द्रव्यं रसतन्मात्रम् । तस्मादापः । शीतस्पर्शवत्वं निर्गन्धत्वे सति विशिष्टरसवश्वमित्याद्यपां लक्षणम् । तासां शुक्लमधुरशीतैकस्वभावानामाश्रयादिसंसर्गभेदाद्भू परसस्पर्शवैचित्रयारोपः । ताः समुद्रसरिदादिरूपेण बहुप्रकाराः । शब्दस्पर्शरूपरसवत्यथ सेचनपिण्डीकरणादिहेतवः ।
Chood
Acharya Shri Kailassagarsuri Gyanmandir
अपृथिव्योर्मध्यमावस्था विशिष्टं द्रव्यं गन्धतन्मात्रम् । तस्मात्पृथिवी । विशिष्टगन्धवत्त्वं रसवत्त्वे सति विशिष्टस्पर्शश्वामित्यादि पृथिवीलक्षणम् । सा सुरभिर्मधुरा कृष्णादिरूपा चानुष्णाशीतस्पर्शवती । पाकजभेद द्विचित्रवर्णा विचित्ररसा च ।
वैश्वानरसंज्ञकेति । वैश्वानरो नाम शरीरान्तर्वर्ती प्राणादिसंयोगादशितपीतपाकादिहेतुस्तेजोविशेषः । द्रव्यान्तरसंसर्गादिति । पञ्चीकृतभूतारब्धव्यष्टिप्रपञ्चे सुवर्णादिषु पार्थिवांशस्य प्रभूतत्वात् । तैजसत्वोक्तिस्त्वितरांसाधारणं स्वतः शुद्धत्वं स्फुरत्त्वादि चान्वीक्ष्य कृतेति बोध्यम् । द्रव्यरूपेति । प्रभाया न रूपादिवत्केवलगुणत्वम् | स्वाश्रयभूताद्दीपादन्यत्र तत्समीपे देशे प्रमाया विद्यमानत्वात् । रूपवत्त्वादपि तस्या द्रव्यत्वं सिध्यति । गुणभूतेति । नियमेन द्रव्याश्रयत्वाद्रव्यशेषत्वाच्चेति भावः । एतेषु च तत्त्वेषु भागत एवोत्तरोत्तरसृष्टिः । अन्यथा पृथिव्येकशेषप्रसङ्गात् । पूर्वपूर्वभूतानामुपलम्भादिसिद्धत्वाच्च ।
सुरभिरिति । स्वभावत इत्यादिः । विचित्ररसा चेति । कचिद्रवत्योपलम्भोऽपि
१. विप्र । २. 'रिद्रदादि' । ३ घ 'दातु विचि' ।
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126