Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
:
प्रकाशसहिता। हात्तदभावा । शिल्पादिकरणमिन्द्रियं पाणिः । स च मनुष्यादीनामङ्गुल्यादिवृत्तिः । वारणादीनां नासावृत्तिः । संचरणकरणमिन्द्रियं पादः स च मनु. प्यादीनां चरणवृत्तिः । भुजगपतगादीनामुम:पक्षादिवृत्तिः । मलादित्यागकरणमिन्द्रियं पायुः । स च तत्तदवयववृत्तिः । आनन्दविशेषकरणमिन्द्रियमुपस्थः । स च मेहनादिवृत्तिः । एतानीन्द्रियाण्यणूनि । परकायप्रवेशे लोकान्तरगमनादिषु च जीवेन सह गमनमिन्द्रियाणाम् । मुक्तिदशायामप्राकृतदेशगमनासंभवादिदेव यावत्पलयं स्थितिः। करणविधुरैरन्यैः परिग्रहो वा । कर्मेन्द्रियाणां शरीरनाशाबाश इति पक्षस्तु भाष्यविरोधेने नेयः । एतेन पुरुषेन्द्रियम्,
___ अङ्गुल्यादिवृत्तिरिति । ननु तालुपादादिभिरपि मौक्तिकग्रथनलिपिकरणादिशिरूपदर्शनात्तत्राप्येतदिन्द्रियवृत्तिरङ्गीकार्येति चेत्सत्यम् । तत्रांशता वृत्तिरस्त्येव । न हीन्द्रियाणां मिथो विरोधः । इन्द्रियान्तरव्याप्ते देश इन्द्रियान्तरावस्थानस्य चक्षुः. स्पर्शनादौ दर्शनात् । तत्चदवयवेति । मान्थालादीनां तु मुखादिवृत्तिः । तेषामास्येनैव विण्मूत्रविसर्गात् । अणूनीति । अणूत्वं चैषामुपलव्ध्ययोग्यपरिच्छिन्नपरिमाणत्व. मात्रम् । सह गमनमिति । अणुत्वादेवोपपद्यत इति शषः । ' त एते सर्व एव समाः सर्वेऽनन्ताः' (बृ. १।५।१३ ) इत्यानन्त्यश्रुतिस्तु ' अथ यो ह वैताननन्तानुपास्ते ' (बृ० १।५।१३ ) इत्युपासनविधानादुपासनफलबाहुल्यविषया । इन्द्रियाणामिति । ननु कर्मेन्द्रियाणां शरीरेण सहोत्पत्तिविनाशौ । न तु शरीरान्तरगमनमिति चेन्न । 'प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्कामन्ति' (बृ० ४।४।२) इति श्रुतेः । सर्वशब्दन कर्मेन्द्रियाणामपि संग्रहात् । विना प्रमाण संकोचे मानाभावात् । — यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति' (बृ. ३।२।१३ ) इति श्रुतौ शरीरनाशेऽपि कर्मेन्द्रियस्यापि वाचश्चक्षुरादीन्द्रियवदविनाशदर्शनाच्च । अत एव भाप्ये सप्तगत्यधिकरणे (ब्र० सू० २१४१४ ) हस्तादीनां जीवेन सह ममनाभावादनिन्द्रियत्वमाशक्य तेषामिन्द्रियत्वं सिद्धान्तितम् । हस्तादीनि कर्मेन्द्रियाण्यपि जीवेन साकं गच्छन्त्येव न तु विनश्यन्तीति तदाशयः। इहैवेति। मुक्तपरित्यक्तानीन्द्रियाणि केन चित्करणरहितेन जीवेन न गृहीता. नि चेत्तषामिहैव जीवसंबन्धं विनाऽपि प्रलयपर्यन्तं स्थितिः । गृहीतानि चेत्तेन साकमेव । भाष्यविरोधेनेति । इदमनुपदमेवोक्तम् । ' भाष्याविरोधेन ज्ञेयः' इति पाठे यद्यपि कर्मेन्द्रियाणि जीवेन साकं न गच्छन्ति तथाऽपि चक्षुरादीनामिव तेषामपि जीवोप. करणत्वाविशेषादिन्द्रियत्वमस्त्येवेति न तद्भाष्यविरोध इत्यर्थः । अत एव वेदान्तदीपे कर्मेन्द्रियाणि जीवेन साकं न गच्छन्तीत्युक्तम् । पुरुषेन्द्रियमिति । जीवभेदेनेन्द्रिय
१ क. भाज्यावि' । २ क. 'न शेयः।
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126