Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। सा नित्याक्षराविधामायाशब्दवाच्या च. । तस्यां भगवत्संकल्पापीन. गुणवैषम्यात्कार्योन्मुखावस्थाऽव्यक्तशब्देनोच्यते । तस्मात्महानुत्पद्यते । स महान्सालिकराजसतामसभेदात्रिधाऽवस्थितः । महतोऽहंकार उत्पद्यते । सोऽपि सात्विकाहंकारो राजसाहकारस्तामसाहंकारश्चेति त्रिविधो पतः। एतेषां त्रयाणां वैकारिकस्तैजसो भूतादिरिति नामान्तराण्यपि संभवन्ति । तेषु वैकारिक इति प्रसिद्धाद्राजसाहंकारसहकृतात्सात्त्विकाहंकारादेकादशेन्द्रियाणि जायन्ते । • साचिकाहंकारोपादानकं द्रव्यमिन्द्रियमितीन्द्रियलक्षणम् । इन्द्रियं द्विविधम्मानेन्द्रियं कर्मेन्द्रियं चेति । ज्ञानप्रसरणशक्तमिन्द्रियं ज्ञानेन्द्रियम् । तत्वोढामनःश्रोत्रचक्षुर्घाणरसनात्वरभेदात् । स्मृत्यादिकरणमिन्द्रियं मनः । तच्च हृदयदेशत्ति बुद्ध्यहंकारचित्तादिशब्दवाच्यं बन्धमोक्षहेतुभूतं च । शब्दादिपञ्चके शाब्दमात्रग्रहणशक्तमिन्द्रियं श्रोत्रम् । तन्मनुष्यादीनां कर्णशष्कुल्यवच्छिन्नपदेशत्ति । द्विजिहानां नयनत्ति । एवं रूपमात्रग्रहणशक्तमिन्द्रियं चक्षुः । तत्स विपरीतज्ञानमनवधानमालस्यं निद्रा च जनयतीति तत्तत्रय उक्तम् । अक्षरेति । नित्यत्वं ज्ञानविरोधित्वं विचित्रसृष्टि करत्वं च यथाक्रममक्षरादिशब्दवाच्यत्वे हेतुः । तस्मान्महानिति । अव्यक्तावस्थाऽव्यवहितोत्तरावस्थावि. शिष्टमहंकारावस्थाऽव्यवहितपूर्वावस्थाविशिष्टं द्रव्यं महान् । एवमुत्तरत्रापि । विधेति । गुणत्रयाश्रयादव्यक्तात्सत्वादिगुणोन्मेषभेदेन त्रिधा महानुत्पद्यत इति भावः । अहंकार इति । अयमेव देहात्माभिमानादिजनका । राजसाहंकारसहकतादिति । अस्य सहकारित्वं नामेन्द्रियहेतो. सत्त्वांशस्य चलनस्समावेन जसा प्रेरकेण प्रवर्तनम् । इन्द्रियलक्षणमिति । शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियमिन्द्रियमिति परोक्तलक्षणं कर्मेन्द्रियेष्वव्याप्तम् । मन:श्रोत्रेति । मनतः कर्मेन्द्रियत्वं तु म। तस्य ज्ञानद्वारैव कर्महेतुत्वात् । तावतैव कर्मेन्द्रियत्वे चक्षुरादावप्यतिप्रसङ्गः । मानसं कर्मेति व्यवहारे तु कर्मशब्दः शुभाशुभसंकल्पादिरूपज्ञानवाचीति बोध्यम् । हृदयदेशवृत्तीति । इन्द्रियान्तराणामपि हृत्प्रदेश एवं कन्दस्थानम् । स्थानान्तरेष्वपि तेषां यथासंभवं वृत्तिः । तदुक्तं भाष्ये-हृदयस्थानां चेन्द्रियाणां तत्तन्नारीभेदस्तत्तत्प्रदेशविशेषप्रमपत्तित्र तत्र कार्यकरत्वमिति । आत्मनोऽपि हृत्प्रदेशो भूयता वृत्तिः । बुद्ध्यहंकारेति । तथा च माण्यम्-अध्यवसायाभिमानचिन्तारूपवृत्तिमेदान्मन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126