Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकागौरवादता कर्मसामान्यविशेषसमवायानां पृथग्द्रव्यत्वेनानीकाराम द्रव्यमा व्यमिति विविधो विभाग उपपद्यते । । एतेनाभाव: सप्तमपदार्थ इत्यपि निरस्तम् । अभावस्य भावान्तररूपत्वाद। भागभावो नाम पूर्वावस्थापरम्परा । प्रध्वंसाभावो नामोत्तरावस्थापरम्परा । अत्यन्ताभावान्योन्याभावौ तु धर्मान्तरस्वरूपावेव । एतस्य प्रत्यक्षेऽन्तर्भाव: पूर्वमुक्तः । उपादानं द्रव्यमित्युक्तम् । गुणाश्रयो द्रव्यमिति सामान्यलक्षणं संभवति । ___ तानि च द्रव्याणि षट्-प्रकृतिकालशुद्धसत्वधर्मभूतज्ञानजीवेश्वरभेदात् । तत्र जडाजहरूपयोर्विमक्तयोमध्ये जडलक्षणमुच्यते-अमिश्रसवरहित जडम् । तविविधम्-प्रकृतिकालभेदात् । तत्र सत्त्वरजस्तमोरूपगुणत्रयाश्रयरूपा प्रकृतिः। तथाहि-न तावदीश्वरस्य भेदधियमुत्पादयन्ति विशेषाः। तद्धियो नित्यत्वात् । नाप्य. स्माकम् । विशेषाणामस्मदृश्यत्वाभावात् । नापि योगिनाम् । तेषां सर्वज्ञत्वेन तत्तदू. पेण सर्ववस्तुप्रकाशोऽस्त्येवेति विशेषानुपयोगात् । पृथक्त्वेन सिद्धश्चेति । ____ अमावस्यति । यो देशकालादिभेदो वस्तुस्वभावनियामकः स एव लाघवादमावव्यवहारस्यापि नियामकोऽस्तु । किमतिरिक्ताभावकल्पनेन । अनुपलब्धेश्च । नच रूपादीनामप्याश्रयव्यतिरेकेणानुपलम्भात्यागप्रप्तङ्ग इति वाच्यम् । तेषामनन्यथासिद्ध. बुद्धिसिद्धत्वात् । अमावस्य तु भावविशेषेरेवान्यथासिद्धत्वेन त्यागः समुचित एव । अथ भावस्य कथमभावत्वमिति चेद्भवतोऽपि कथमभावाभावस्य भावत्वमिति विभावय । मागभाव इति । अतिरिक्तप्रागभाववादिनोऽपि क्वचित्प्रागभावस्य भावरूपत्वमाव. श्यकमेव । घटध्वंसस्य यः प्रागभावः स घटरूपो घटप्रागमावरूपश्चेति द्विप्रकार इति तेनैवोक्तत्वात् । एवमेव प्रध्वंसाभावेऽपि । घटप्रागभावस्य यो ध्वंतः स घटरूपो घटध्वंस. रूपश्चेति । धर्मान्तरस्वरूपी । अधिकरणस्वरूपी ।
प्रकृतीति । एकस्यापि कालस्यावस्थाभेदेन क्षणादिभेद इत्यवस्थाश्रयत्वरूपद्रव्यलक्षणस्य नाव्याप्तिः । अवस्थाश्चात्रोपाधिसंबन्धमात्ररूपा इत्यन्यत् । ज्ञानस्यापि संकोचविकासरूपावस्थाश्रयत्वमस्त्येव । जीवस्यापि शरीरद्वारा . बाल्या. अवस्थाश्रयत्वं प्रसिद्धमेव । परमात्मनोऽपि सूक्ष्मोऽव्यक्तादिदेहः स्थूलरूपेण परि. णमतीति तद्वाराऽवस्थाश्रयत्वमस्त्येवेति न दोषः । जहाजडेति । जडत्वं च परत एव भासमानत्वम् । प्रकृतिरिति । बद्धचेतनानां ज्ञानानन्दयोस्तिरोधायकत्वं विपरीतज्ञानजनकत्वं चास्या एव । इयमेवेश्वरस्य क्रीडासाधनभूता देशभेदेन कालभेदेन च सदृशासदृशविकारोत्पादिका च । तत्र सत्त्वं ज्ञानं सुखं तदुभयसङ्ग ..च जनयति । रजो रागतृष्णासङ्गान्कर्मसङ्गं च मनयति । तमो . . . . १ ख. 'स्था भावप । २ घ. यो वाद्र । ३ घ. 'गणाश्रया प्र ..
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126