Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता।
पत संस्थानमेव जातिरिति संस्थानातिरेकिसामान्यानङ्गीकारात्समवायस्य समवायान्तराजकारेऽनवस्थानात्तस्यापि संयुक्तविशेषणतयैवोपपत्ते वेध. रयोरणुत्वविभुत्वादिविभाजकधर्ममन्तरेण 'विशेष' इति किंचित्पदार्थाङ्गीकारे पगतैः प्रयत्नादृष्टादिमिर्जन्यताम् । न तु मध्य कर्म । गौरवात् । न हि मध्ये किमपि विशदमुपलभ्यते । येन गौरवपारहारः स्यात्। तगा च संयाग एवं कर्म । ननु तथात्वे भूतलघटयोः संयोगो यावदुपलभ्यते तावद्घटश्चलतीति व्यवहारः कुतो न भवतीति चेन्न । संयोगसंताननैरन्तर्यप्रतीतेश्वलतीति व्यवहारहेतुत्वाङ्गीकारेणादोषात् । यथा भ्रमणे सत्यपि प्रतिक्षणं न भ्रमतीति व्यवहारः किं तु निरन्तरतयाऽनुसंधीयमानेवेव क्षणेषु तथैवात्रेति बोध्यम् । न च कर्मणा संयज्यत इति पृथग्व्यपदेशाद्भेदसिद्धिरिति वाच्यम् । तत्र कर्मशब्दस्य पूर्वसंयोगविश्लेषार्थकत्वात् । संस्थानमेवति । तदुक्तं श्रीभाष्ये-संस्थानातिरेकिणोऽनेकेष्वकाकारबुद्धिबोध्यस्यादर्शनात्तावतैव गोत्वादिनातिव्यवहारोपपत्तेरतिरेकवादेऽपि संस्थानस्य संमतिपन्नत्वाच्च संस्थानमेव जातिः, इति । संस्थानमवयवसंनिवेशः । किं चानुवृत्तधीरेव सर्वत्र जातिसद्भावे प्रमाणमिति वदद्भिः सर्वशरीरेषु शरीरत्वनातिः कुतो न स्वी क्रियत। पृथिवीत्वादिना सांकर्यादिति चेद्घट. त्वमपि तथैवास्तु । तस्यापि पृथिवीत्वादिना सांकर्यात् । सुवर्णस्य तेजसत्वेन पृथिवीस्वाभाववति सुवर्णघटे घटत्वस्य विद्यमानत्वात् । समवायस्येति । समवायो हि न प्रत्यक्षः । अपृथक्सिद्धयोर्वस्तुनोः स्वरूपाद्भिन्नस्य समवायाख्यसंबन्धस्यानुपलभ्यमा. नत्वात् । ननु घटत्वविशिष्ट इत्यादिव्यवहारानुपपत्त्या स कल्प्यत इति चेत्समवायविशिएव्यवहारानपपत्त्या पुनरपि समवायान्तरं करप्यमित्यनवस्था स्यात् । अथैतदनवस्थापरिहारार्थ घटघटत्वाभ्यामेष समवायः स्वभावादेव संवध्यत इत्युच्यत तर्हि घटघटत्वे एव स्वभावान्मिथः संबध्येताम् । किं चैवं ज्ञानार्थयोरपि विषयविषयिभावादिक स्वभावातिरेकेण समवायवदन्यदेव संबन्धान्तरं करप्यं स्यात् । तथा च संयुक्तविशेषण. तैव समवायो नान्यत्पदार्थान्तरमिति भावः । जीवेश्वरयोरिति । अणुत्वादयो धर्मा एक विशेषा नान्यत्पदार्थान्तरम् । गौरवात् । यद्यपि समेषु जीवेषु मिथों विमानकधर्माः स्वाभाविका न सन्ति तथाऽपि देशकालनातिगुणाकारादिभेदेनोपाधिकाः सन्त्येव । मुक्तानामपि भूतपूर्वैर मुक्तदशायां विद्यमानरुपलक्षणतयाऽवस्थितैदोः ज्ञातुं शक्यते । योगिनश्चामुं भेदं जानन्त्येव । ननु समानजातीयत्वादिविशेषणविशिष्टा मुक्तात्मानः परमाणवश्च परस्परव्यावर्तकधर्मवन्तो द्रव्यत्वाद्धटादिवदित्यनुमानेन विशेषसिद्धिरिति वाच्यम् । पृथक्त्वेन सिद्धसाधनात् । यदि पृथक्त्वत्वरूपैकनात्या क्रोडीकृतैः पृथक्ववस्तूनामितरेतरव्यावर्तनं न स्यादित्युच्यते तर्हि विशेषेष्वपि तुल्यम् । तेषामपि विशेषत्वरूपैकोपाधिकोडीकृतत्वात् । किं च कल्प्यमानस्य विशेषस्य व काप्युपयोगः ।
For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126