Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। पिकरणस्य पापात्तीरे लक्षणा । द्वितीया यथा-सिंहो देवदत्त इत्यत्र देव. दत्ते शौर्यादिगुणयोगः। एवं वैदिकलौकिकरूपं सर्वे वाक्यजात सविशेषविषयकं भेदविषयकं च । पारीरवाचकशब्दानां यथा शरीरिणि पर्यवसानम् , एवं भगवच्छरीरभूत. ब्रह्मरुद्रामीन्द्रादिचिद्वाचकशन्दाना तथा शरीरभूतर्मभृतिकालाकाशमाणाय - चिद्वाचकान्दानां शरीरिणि परमात्मनि श्रीनारायणे पर्यवसानमुपपाद: यन्त्याचार्याः । वेदान्त ज्ञानाव्युत्पत्तिः पूर्यत इत्युक्तम् । नारायणस्य सर्वयोगरूतिः । यथा पङ्कजादौ । यौगिकरूढिरपि चतुर्थी वृत्तिरस्तीत्येके । महायोगा ख्याऽपि काचिद्वृत्तिरस्तीत्यन्ये ।। सविशेषेति । शब्दस्य हि द्विधा प्रवृत्तिः । पदरूपेण वाक्यरूपेण च । तत्र प्रकृतिप्रत्यययोगेन पदत्वम् । यथा पाचक इति । अत्र 'पच् ' इति प्रकृतेः पचनमर्थः । ण्वुल्पत्ययस्य च कर्तृरूपोऽर्थः । तयोः संबन्धेन पाचकशब्दात्पचन कर्तृत्वं पद्बुध्यते स एव विशेष इति प्रथमतः पदमेव तावत्सविशेषवस्तुप्रतिपादकं भवतीति तत्समुदायरूपस्य तत्तत्पदार्थसंसर्गरूपवाक्यार्थप्रतिपादकस्य वाक्यस्य सविशेषवस्तुप्रतिपादकत्वमवर्जनीयमेव । अत एव च वाक्यस्य भेदविषयकत्वमपि सिद्धं भवति । सर्वत्र विशेषतयुक्तवस्तुनोधर्मधर्मिणो देनैव प्रतीयमानत्वात् । एतेन ' तत्त्वमसि' (छां. १८१७ ) इत्यादिवाक्यानि निर्विशेषाद्वितीयब्रह्मरूपवस्तुप्रतिपादकानीति मायावायुक्तमपास्तम् । नन्वेवं तत्त्वमसीत्यत्र तत्त्वंपदार्थयोः सामानाधिकरण्यं कथमुपपद्यते । तथा ' इदं सर्व यदयमात्मा (बृ. २।४।५ ) इत्यत्रापीति चेत्तत्राऽऽह-शरीरवाचकेति । अयं देवोऽयं मनुष्य इत्यादौ देवादिशब्दा न केवलजीववाचकाः । किंतु शरीरवाचकाः । शरीररहितानां जीवानां साम्येन तेषु देवत्वादिप्रयोजकभेदकधर्माभावात् । तत्रापि न केवलशरीरवाचकाः । किं तु तेषां शरीरिणि पर्यवसानम् । अन्यथा देवो मनुष्यः सुखी दुःखीत्यादिप्रयोगासंगतः । शरीरस्य सुखादिवैशिष्टयाभावात् । सर्वत्र शब्दार्थनिर्णये प्रयोग एव शरणम् । वेदेऽपि ‘पञ्चदशरात्रा देवत्वं गच्छन्ति ' इत्यादिप्रयोगा दृश्यन्ते । न हि यज्ञकर्तृणां शरीरत्वप्राप्तिः । तदुक्तं . सवार्थसिद्धौ-अपृथक्सिद्धविशेषणत्वमेव व्यवहारनियमे तत्रम् । अस्ति चापृथक्सिद्वत्वं शरीरिणा शरीरस्येति । एवमिति । तथा च जोववाचकानां जडवाचकानां १ ख. घ. प्रकृति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126