Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यतीन्द्रमतदीपिका
३४
शब्दवाच्यत्वं सर्वशरीरकत्वमित्यादिकं तूपरीश्वरनिरूपणे प्रतिपादयिष्यामः ।
इति शब्दो निरूपितः ॥
इति श्रीवाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकार्या शब्दनिरूपणं नाम तृतीयोऽवतारः ॥ ३ ॥
·
Acharya Shri Kailassagarsuri Gyanmandir
अथ चतुर्थोऽवतार: ।
प्रमाणनिरूपणानन्तरं प्रमेयं निरूप्यते - प्रकर्षेण मेयं प्रमेयम् । तच द्विविधम् - द्रव्याद्रव्यभेदात् । द्रव्यमुपादानम् । अवस्था श्रेयमुपादानम् ।
ननु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्था इति मतान्तरस्थैः सप्तधा परिगणनात्कथं द्रव्याद्रव्यभेदेन द्वेषा समर्थनमिति चेदुच्यते - उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनभेदात्कर्म पञ्चधाऽवस्थितमिति कल्पने गौरवाञ्चलनात्मकं कर्मेत्येकधैवोपपत्तेस्तस्यापि संयोगमादायवोपच शब्दानां तत्तद्विशेषणविशिष्ट परमात्मपर्यन्तार्थप्रतिपादकत्वन नोक्तश्रुत्यक्त सामानाधिकरण्यानुपपत्तिरिति बोध्यम् ॥
इति श्रीयतीन्द्रमतदीपिकाप्रकाशे तृतीयोऽवतारः ॥
अथ चतुर्थोऽवतारः ।
I
द्रव्याद्रव्येति । ननु द्रव्यसिद्धावेवाद्रव्यासिद्धिः । अद्रव्यस्य द्रव्यप्रतियोगित्वेनं द्रव्यासिद्धावसिद्धेः । तथा द्रव्यमप्यद्रव्यसिद्धिपूर्वकमेव । अवस्थाश्रयत्वं द्रव्यत्वमिति हि द्रव्यलक्षणं वाच्यम् । तच्च न संभवति । अवस्थाया अद्रव्यत्वेनाद्रव्यासिद्धावद - स्थाया अनिरूपणात् । तथा चान्योन्यसापेक्षत्वाद्रव्यमद्रव्यमिति द्वयमपि न सिध्य - तीति चेन्मैवम् । किं द्रव्याद्रव्ययोरुपलम्भानुपपत्तिरन्योन्यापेक्षयोच्यते, व्यवहारानुपपतिर्वा । न तावदुपलम्भानुपपत्तिः । एकस्मिन्नेव क्षणे विशेषणविशेष्ययो रे कज्ञानग्रहणयोग्ययोर्विशेषणविशेष्यभावेनोपलम्भात् । नापि व्यवहारानुपपत्तिः । व्यवहारो हि व्युत्पत्यधीनः । व्युत्पत्तिश्च द्रव्याद्रव्यशब्दयोर्युगपज्जायत एव । युगपदेवोपलभ्यमानयोराधाराधेययोरनयोरनुक्रमाद्रव्याद्रव्यशब्दौ वाचकाविति । तथा च द्रव्याद्रव्यशब्दयोयुत्पत्तौ व्यवहारे प्रतीतौ च परस्परपौर्वापर्याभावान्न काऽप्यनुपपत्तिः ।
गौरवादिति । तत्तद्दिग्भेदेन दशविधत्वस्यापि प्रसङ्गाच्चेत्यपि बोध्यम् । संयो गमादायेति । यो हि संयोगः कर्मजन्यतयाऽभ्युपेयते स एव तादृशकर्महेतुतयाऽम्यु.
क. ख. 'य उपा
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126