________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता।
२५ पा। पराजय हेतुर्निग्रहस्थानमित्येषामनुमानाङ्गत्वादनुमानेऽन्तर्भावः । कचित्क. चिन्नैयायिकमतानुसारेणोक्तमिति न विरोधः । इत्यनुपानं निरूपितम् ।। इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदा. सेन विरचितायां यतीन्द्रमतदीपिकायामनुपाननिरूपणं
नाम द्वितीयोऽवतारः ॥ २ ॥
अथ तृतीयोऽवतारः।
अनुमाननिरूपणानन्तरं शब्दो निरूप्यते-अनाप्तानुक्तवाक्यजनिततदर्थः विज्ञानं शाब्दज्ञानम् । तत्करणं शब्दप्रमाणम् । अनाप्तानुक्त इत्युक्तत्वाद्ध. दस्य पौरुषेयत्वमतनिरास: । करणदोषबाधकपत्ययाभाववद्वाक्यं वा । सर्गादौ भगवांश्चतुर्मुखाय पूर्वपूर्वक्रमविशिष्टान्वेदान्स्मृत्वास्मृत्वोपदिशतीत्युक्त्या वेदस्य नित्यत्वमपौरुषेयत्वं च सिद्धमिति करणदोषाभावो बाधकप्रत्ययाभावश्च । स्वव्यापित्वं स्वव्याघातकत्वं च बोध्यम् । सा च साधर्म्यसमादिभेदेन चतुर्विशति प्रकारेति गौतमसूत्रे (५ । १ । १) स्पष्टम् । दूषणसमर्थमप्यसिद्धं छलं, सिद्धमपि दूषणासमर्थ जातिरिति च्छलजात्योदः । निग्रहस्थानमिति । निग्रहस्य खलीकारस्य स्थानं ज्ञापकमित्यर्थः । यथा-शब्दोऽनित्यः प्रत्यक्षगुणत्वादित्युक्ते परेण सोऽयं गकार इत्यादिप्रत्यभिज्ञाबलाद्वाध उद्भावितेऽस्तु तर्हि नित्यः शब्द इति नित्यत्वं स्वीकुर्वन्वादी प्रतिज्ञां जहाति । तच्च निग्रहस्थानं प्रतिज्ञाहान्यादिभेदेन द्वाविंश. तिविधम् । तत्तलक्षणानि तु गौतमसूत्रे (५।२।१) ज्ञेयानि ॥
इति श्रीयतीन्द्रमतदीपिकाप्रकाशे द्वितीयोऽवतारः ॥ २ ॥
अथ तृतीयोऽवतारः।
अनाप्तति । नवयं परित्यज्याऽऽप्तोक्तवाक्यजनिततदर्थविज्ञानमित्युक्तौ तु वेदस्याऽऽप्तोक्तत्वसिद्धये तस्य पौरुषेयत्वं स्वीकार्य स्यात् । करणेति । करणदोषो बाधकप्रत्ययश्चेत्येतदुभयाभावविशिष्टमित्यर्थः । अत्रायं प्रयोगः-वेदः प्रमाणं , करणदोष. बाधकप्रत्ययरहितत्वे सति वाक्यत्वात्संप्रतिपन्नवाक्यवत् । अपौरुषेयत्वात्करणदापरा.
१ घ. तत्कार'।
For Private And Personal Use Only