________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
यतीन्द्रमतदीपिका
तर्कानुगृहीत प्रमाणपूर्वकत्वावधारणं निश्रयः । वीतरागकथा वादः । पक्षद्वय साधनवती विजिगीषुकथा जल्पः । स्वपक्षस्थापनहीना तु वितण्डा अविवक्षि सशब्दार्थारोपेण दूषणं छलम् । स्वव्यापि दूषणं जातिरसदुत्तरं जातिरिति स्याच्चेत्कार्यकारणभावभङ्गः स्यादिति तर्कः । स च यत्र धूमस्तत्र वह्निरिति व्याप्तौ कथितायां ' धूमोऽस्तु नाम परं तत्र वह्निना कथमवश्यं भवितव्यम् ' इति यदि शङ्का समागच्छेत्ततस्तादृशशङ्कापसारणद्वाराऽनुमानमनुगृह्णातीति बोध्यम् । तर्कश्व पञ्चविधः । आत्माश्रयान्योन्याश्रयचक्रका नवस्था के वलानिष्टप्रसङ्गभेदात् । प्रतिबन्दीति तु केवलानिष्टप्रसङ्गस्यैवावान्तरभेदः । तर्कान्तरमिति केचित् । दुस्तर्कस्तु त्याज्य एव । दुस्तर्कावलम्बिनः कथायामनधिकारात् । वीतरागकथेति । परस्परविरुद्ध • वादिनोर्व्यवहारः कथेति कथासामान्यलक्षणम् । सा च कथा त्रिविधा - वादजल्पवितण्डाभेदात् । वादे प्रमाणत साधनम् । वीतरागोऽधिकारी | तत्त्वज्ञानं प्रयोजनम् ।
तदुक्तम्
-
Acharya Shri Kailassagarsuri Gyanmandir
' तत्र प्रमाणतर्काभ्यां साधनाक्षेपसंयुता ।
"
वीतरागकथा वादस्तत्फलं तत्त्वनिर्णयः ' इति ॥
जयार्थी जल्पाधिकारी । अत एव स न वीतरागः । उभयोरपि वादिनोः साधनवत्त्वे जल्पः । अन्यतरस्य स्वपक्षसाधनवत्त्वे परस्य दूषणमात्रशरणत्वे वितण्डा | केचित्तु वीतरागवितण्डा विजिगीषुवितण्डेति वितण्डाद्वैविध्यमाहुः । तस्यायमाशयः - स्वपक्षसाधनं परपक्षदूपणं साधनसमर्थनं दूषणसमर्थनं शब्ददोपवर्जनमिति पछाड़ो वादः । एकस्मिन्वादे वादिप्रतिवादिनावधिकारिणौ । वीतरागकर्तृकवादद्वयसमुच्चयेन वतिरागकथारूपो वादः प्रवर्तते । विजिगीषुकर्तृकवादद्वयसमुच्चयेन विजिगीषुकथारूपो जल्पः प्रवर्तते । तत्र यथा जल्पार्धेनैकेनैव वादेन विजिगीषुवितण्डा तथा वादार्घे. नैकेनैव वादेन वीतरागवितण्डेति । वितण्डायामपि वादिप्रतिवादिव्यवस्थानुपालनं कर्तव्यमेव । सर्वत्रैव प्रमाणज्ञैः स्वपक्षसाधनादि कर्तव्यत्वेन कल्पितम् । छलजातिनिग्र 1 हस्थानादित्वकर्तव्यत्वेन कल्पितम् । तत्र च्छलमाह- अविवक्षितेति । यथा नवकम्बersयं देवदत्त इति नूतनकम्बलाभिप्रायेण प्रयुक्ते वाक्ये तत्राविवक्षितो यो नवस्वसंख्याविशिष्टोऽर्थस्तमारोप्य कश्विद्दूषयति । नास्य नवकम्बलाः सन्ति दरिद्रत्वात् । न ह्यस्य द्वित्वमपि संभाव्यते कुतो नवेति । स्वव्यापीति । यत्परस्य दूषणं दीयते. तत्स्वस्याप्यायातीत्यर्थः । असदुत्तरमिति । उत्तरस्यासत्त्वं स्वव्याघातकत्वम् । यथा पर्वतो वह्निमान्धूमान्महानसवदित्यत्र यद्ययं पर्वतो धूमवत्वेन महानससाधम्र्म्याद्विह्नि मास्यात्तर्हि द्रव्यत्ववत्त्वेन हदसाधर्म्याभाववानेव वा किं न स्यादिति । अत्र चव भावसाधनेऽनयैव रीत्या महानससाधर्म्येण वह्निमत्त्वमपि सिध्यतीत्यस्य
For Private And Personal Use Only