Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता मौस्तथा गक्य इति कुतश्चिदारण्यकवाक्यं श्रुत्वा वनं गतो पापा स्मरम्पदा गोसादृश्यविशिष्टपिण्डं पश्यति तदा तद्राक्यास्मिरणसहातगोसायनित शिष्टपिण्डज्ञानं जायते तदुपमानमित्युच्यते। स्मरणरूपत्वात्तस्य प्रत्यक्षतर्भाव। व्याप्तिग्रहणापेक्षत्वादनुमानेऽन्तर्भावः । वाक्यजन्यत्वाच्छरदे चान्तर्भाव।
अर्थापत्तिर्नाम दिवाऽभुञ्जानस्य पुरुषस्य पीनत्वदर्शनाद्रात्री भोजनं कल्प्यते । एतस्यानुमानेऽन्तर्भावः । तर्को नाम व्याप्याङ्गीकारेण व्यापकपसञ्जनम् । तद्यथा पर्वतोऽग्निमान्धूमववादित्यनुमाने धूमोऽस्तु वह्निर्माऽस्त्वित्युक्ते यदि वह्निर्न स्यात्तार्ह धूपोऽपि न स्यादित्येतस्य प्रमाणानुग्राहकत्वम् । नमुपमितिकरणम् । शब्दे चान्तर्भाव इति । यथाऽयं गौरिति व्यक्तिविशेषे गोश. ब्दव्युत्पादनेऽपि वक्त्रभिप्रायमालोच्य न्यायानुसारेण सार्वत्रिकी गोशब्दव्युत्पत्ति प्रतिपद्यन्ते बालाः । न हि बुद्धिमन्तो यावदुक्तमेव गृह्णन्ति । तथाऽतिदेशवाक्येऽपि बुद्धिमन्तः श्रोतारो न्यायानुसारेण गोप्तादृश्यादिचिह्नोन्नीते गवयत्वादौ व्युत्पद्यन्ते । नन्वतिदेशवाक्यश्रवणकाले गवयत्वादेरप्रत्यक्षत्वात्कथं शाब्दज्ञानमिति चेन्न । अर्थप्र. त्यक्षस्य शाब्दज्ञानेऽतन्त्रत्वात् । अन्यथा तेस्तैलक्षणैरिन्द्रोपेन्द्रादिशब्दानां व्युत्पत्तिन स्यात् । तदभावे वैदिकवाक्यार्थाप्रतिपत्तावनुष्ठानं न स्यादिति बहुव्याकुली स्यात् । मायावादिनस्तु नगरेषु दृष्टगोपिण्डस्य पुरुषस्य गवयेन्द्रियसंनिकर्षे सति भवति प्रतीक तिरयं पिण्डो गोप्सदृश इति । तदनन्तरं च भवत्यनेन सदृशी मदीया गौरिति निश्चयः। इयमेवोपमितिरित्याहुः । तन्न । अनुमानेऽन्तर्भावात् । तथा च प्रयोगः-गौर्गवयस.. दृशो गवयस्थसादृश्यप्रतियोगित्वात् । यो यद्गतप्तादृश्यप्रतियोगी स तत्सदृशः । यथा वामहस्तो दक्षिणहस्तेनेति ।
एतस्येति । तथा च प्रयोगः-देवदत्तो रात्रिभोजी दिवाऽभुञ्जानत्वे सति पीनत्वात् । जीवी देवदत्तरे गृहे नेत्यत्र बहिः सत्त्वमप्यनुमानादेव सिध्यति । नीचन्देवदत्तो बहिरस्ति विद्यमानत्वे सति गृहेऽसत्त्वादिति । एवमेव सर्वत्र बोध्यम् । - तदुक्तम्
___ 'अनियम्यस्य नायुक्ति नियन्तोषपादकः' इति । अनियम्यस्याव्याप्यस्य नायक्तिर्नानुपपद्यमानता । अनियन्ताऽव्यापको नोपपादक इत्यर्थः । तथाच व्याप्तिरव नामान्तरेणानुपपत्तिरित्युच्यत इति नापत्तिः प्रमाणान्तरमिति भावः । प्रमाणानुग्राहकत्वमिति । यदि वह्निन स्यात्तार्ह धूमोऽपि न स्यात् ।
१ क. स. वाक्याच्छत्वा । २ घ. गोसदशपि। 3 घ. 'ब्दे वाऽन्त । ४ ध. तो वाहमा. न्धमादिति स्थले धुमो ।
For Private And Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126