Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। . प्रतिमाहेतूदाहरणरूपयवयववादिनो मीमांसकाः । उदाहरणोपनय. रूपावयवद्वयवादिनः सौगताः । अस्माकं त्वनियमः । कचित्पश्चावयवः । कचित्त्यवयवः । कचियवयवः । उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मयोः सिद्धत्वात् । तावतैवानुमित्युपपत्तेश्च । मृदुमध्यमकठोरधियां विस्तरसंग्रहाभ्यां व्यवहार उपपद्यत इत्यनियम एव । एवं पञ्चावयवसंयुक्तः सद्धेतुरेव वलयनुमापकः । स तुरित्युक्तत्वाद्रमसदृशधूलीपटलान वड्यनुमितिः।। अन्ये हेतुबद्भासमाना हेत्वाभासाः। ते चासिद्धविरुद्धानकान्तिकपकरणस. मकालात्ययापीदष्टेभेदन पञ्चमकाराः । तत्रासिद्धस्त्रिविधः-स्वरूपासिद्ध आश्रयासिद्धो व्याप्यत्वासिद्धश्चेति । स्वरूपासिद्धो यथा-अनित्यो जीवशाभुषत्वाद्धटवादिति । आश्रयासिद्धस्तु व्योमारविन्दं सुरभि, अरवि. न्दत्वात्सरोजारविन्दवदिति । व्योमारविन्दमाश्रयः। स चासिद्धः। व्याप्यत्वा. सिद्धो द्विविधः-एको व्याप्तिग्राहकप्रमाणाभावादपरस्तूपाघिसद्भावात् । आयो यथायत्सत्तक्षणिकमिति । क्षणिकत्वसवयोाप्तिग्राहकममाणासिद्धेः। द्वितीयो यथा-अग्नीषोमीया हिंसा अधर्मसाधिका, हिंसात्वात् ऋतुबाह्यहिंसाचदिति । भत्र निषेध्यत्वमुपाधिः। अतो हिंसात्वहेतुः सोपाधिकः । साध्यविपरीतव्याप्तो हेतुविरुद्धः । तद्यथा-नित्या प्रकृतिः कृतकत्वात्कालवत् । नयः । उदाहरणेन गृहीतव्याप्तिकस्य हेतोस्तेनैवाऽऽकारेण पक्षधर्मताप्रदर्शनार्थ. त्वादुपनयस्य । पक्षधर्मतामात्रं हेतुवाक्यार्थी व्याप्तस्य पक्षधर्मत्वमुपनयवाक्यार्थ इति हेतूपनययोर्भेदः । ततो निगमनम् । तच्चाऽऽवश्यकमेव । तस्य विपक्षे बाधकप्रमाणामावद्योतनार्थमग्निमानेवेति सावधारणसाध्यनिर्देशत्वात् । ततश्च पश्चावयवयुक्तं वाक्यमेव परिपूर्णोपदेश इति । ध्यवयव इति । यद्यप्ययं पक्षः साध्यव्यवस्थापनामावादनादरणीय एव तथाऽपि बुद्धिमतः साध्यव्यवस्थापनस्य सुलभत्वादत्रोक्त इति बोध्यम् । हेत्वाभासा इति । व्याप्तिः पक्षधर्मता चेति द्वयमनुमानाङ्गम् । तत्र व्याप्त्यभावेन व्याप्यत्वासिद्धविरुद्धानकान्तिका हेत्वाभाप्ताः । साधारणानैकान्तिके हेतोर्विपक्षगामित्वेन व्याप्तिविरहः । असाधारणानकान्तिके तु सपक्षे विद्यमानेऽपि हेतोः पक्षमात्र. वृत्तित्वेन व्याप्तिप्रदर्शनामावाद्याप्तिविरहः । पक्षधर्मताया अभावेन स्वरूपासिद्धाश्रयासिद्धौ हेत्वाभासौ । प्रकरणसमे तु पक्षे साध्यनिश्चयावसादनेन व्याप्तिमा इति क. नयनाभ्या । २ घ. 'न्ये तु है। ३. निषिदस्य। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126