Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रपतदीपिकाकुत्रकत्वं हेतुः साध्याभावव्यात सव्यभिचारोज्नैकान्तिक: । स च द्विविधा साधारणोऽसाधारणथैति । पक्षसपक्षविपक्षटत्तिा साधारणः । यथा शब्दो नित्यः प्रपेयत्वात्कालवत् । असाधारणस्तु विपक्षसपक्षव्यावृत्तः । पथा भ्रमिनित्या गंधवत्वादिति । प्रकरणसमस्तु साध्यविपरीतसाधकहेत्वन्तरवान् । पथेवरोऽनित्यः । नित्यधर्मरहितत्वात् । ईश्वरो नित्योऽनित्यधर्मरहित्वा. दिति । अयमेव सत्पतिपक्षः । कालात्ययापदिष्टो यथा-पस्य हेतोः साध्याभावापक्षः स कालात्ययापदिष्टः । यथाऽनिरनुष्णः, पदार्थत्वाजलवत् । अयं च प्रत्यक्षेणोष्णत्वावधारणाबाधितः। - एक्मनुमाने निरूपिते उपमानादेरनुमानादावन्तर्भावः । यथाऽतिदेशवाक्यार्थस्मरणसहकृतगोसादृश्यविशिष्टपिण्डज्ञानमुपमानम् । गवयमजानपि यथा केचित् । स्वारसिकसंदेहापवादिनाऽपि विपरीतनिश्चयप्रसङ्गेन बाधतुल्यत्वमापाद्य पक्षधमताभङ्ग इत्यन्ये। व्याप्तिपक्षधर्मत्वयोर्द्वयोरपि विमर्दनेनोभयदोषापादनमितीतरे। कालात्ययापदिष्टे तु साध्यशून्ये साधनवृत्त्या व्याप्तिभङ्ग इति केचित् । सिद्धसाधनवत्साध्य. संदेहाभावात्पक्षधर्मत्वभङ्ग इत्यपरे । प्रकरणसमस्त्विति । अयं च संदिग्धः । साध्यविपरीतप्ताधकहेत्वन्तरदर्शनेनायं हेतुः स्वसाध्यं साधयितुमीष्टे न वेति संदेहोदयात् । अत एवायं प्रकरणसम इत्युच्यते । प्रकरणेन पक्षण समस्तुत्यः। पक्षो हि साध्य. वान्न वेति संदिह्यत इति तदर्थ प्रयुक्तो हेतुरप्यत्र स्वसाध्यं साधयितुमीष्टे न पति संदिह्यत एवेत्युभयोः समत्वं बोध्यम् । ननु संदेहस्यानुमानाङ्गत्वात्तदुत्थापकस्यास्य कथं हेत्वाभासत्वमिति चेद् भ्रान्तोऽसि । द्विविधा खलु संदेहप्रवृत्तिः । एका खारसिको सर्वानुमानसाधारणी । द्वितीया पुनः प्रतिकूलानुमानदर्शनजनिता । तत्र प्रथमैवानुमानाङ्गम् । न तु द्वितीया । शङ्कापनोंदनप्रवृत्तपूर्वानुमानपरिपन्धिरूपेणानुमानान्तरेण प्रवर्तितत्वात्तस्या इति बोध्यम् । कालात्ययापदिष्ट इति । कालस्य साधनकालस्यास्ययेऽमावेऽपदिष्टः प्रयुक्तो हेतः कालात्ययापदिष्टः । अकालप्रयुक्त इति यावत् । अयमेव बाधितसाध्यक इत्युच्यते । अतिदेशवाक्येति । अतिदेशवाक्यं च त्रिप्रकारम् । तत्र प्रथम गोसदृशो गवय इति साधोपमाने । तत्स्मरणसहकृतं यद्गोसादृश्यविशिष्टपिण्डज्ञानं तदेवोपमितिकर णम् । द्वितीयं च गवादिवविशफो म भवत्यश्व इति वैधयॊपमाने । तत्र च गोवि. सरशपिण्डज्ञानमुपमितिकरणम् । तृतीयं च दीर्घग्रोवः प्रलम्बोष्ठः कठोरकण्टकाशी पशुः क्रमेलक इत्यसाधारणधर्मोपादाने । तत्र च तादृशासाधारणधर्मविशिष्टपिण्डज्ञा १ घ. 'प्तः । साध्याभावव्याप्तो हेतुविरुद्धः । स । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126