Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतीन्द्रमतदीपिकातिरेकिनिरास: । केवलान्वयिन्यन्वयव्यतिरेकिणि चात्यन्तासीन्द्रियार्थगोचरता निरस्ता।
तदेतदनुमानं स्वार्थ परार्थ चेति द्विधा विभज्य केचिदाहुः । सर्वेषामनुमा नानां स्वप्रतिसंधानादिवलेन प्रवृत्ततया स्वव्यवहारमात्रहेतुत्वमिति स्वार्थानुमानमेवेत्यपरे । तदनुमानबोधकवाक्यं प्रतिज्ञाहेतूदाहरणोपनय. निगमनरूपं पश्चावयवसंयुक्तम् । तत्र पक्षवचनं प्रतिज्ञा । यथा पर्वतोऽमिमानिति । लिङ्गस्य वचनं हेतुः । यथा धूमवत्त्वादिति । व्याप्तिनिर्देशपूर्वक दृष्टान्तवचनमुदाहरणम् । तद्विधा । अन्वयिव्यतिरेकिभेदात् । यथा यो यो धूमवान्स सोऽमिमान्यथा महानसमित्यन्बयोदाहरणम् । योऽनमिः स निर्धूमो यथा महाहद इति व्यतिरेकोदाहरणम् । दृष्टान्तनिदर्शनेन व्याप्त. तया पक्षे हेतूपसंहारवाक्यमुपनयः । सोऽपि विविधः । अन्वयन्यतिरेकमे. दात् । तथा धूपवानित्यन्वयोपनयः । अयं च न तथा निर्धूम इति व्यतिरेकोपनयः । हेतुपूर्वकं पक्षे साध्योपसंहारवाक्यं निगमनम् । इदमपि विविध तथैव । यथा । तस्मादग्निमानित्यन्वयेन निगमनम् । तस्मादयं निर. मिर्न भवतीति व्यतिरेकेण । एवं पञ्चावयववादिनो नैयायिकाः।
घातः । अप्रसिद्धे च साध्ये तदभावव्याप्तिहा । प्रतियोगिप्रमिति विनाऽमावप्रमितेरयोगात् । नन्वस्त्वेवं भावप्ताध्यकस्थले । पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वादित्याद्य. मावसाध्यकस्थले त्वमावामावस्य भावरूपत्वेन तस्य च मावस्य प्रतियोगिप्रमिति विनाऽपि सिद्धत्वात्तद्वयाप्तिः सुग्रहैवेति चेद्धान्तोऽसि । व्यतिरेकस्य मावात्मत्वेऽपि व्यतिरेकव्याप्तिकथनावस्थायां साध्यामावरूपतया कथनमवश्यंभावि । यदितरेभ्यो न मिद्यते तद्गन्धवन्न भवतीति हि व्यतिरेकव्याप्तिकथनम् । अन्यथा साध्यप्रतिभटत्वाभावे व्यतिरेकन्यवहारानुपपत्तेः । नमु शब्दः पृथिव्याघष्टद्रव्यातिरिक्तद्रव्याश्रितः, शान्दत्वादित्यत्र साध्यस्य द्रव्याश्रितत्वरूपसामान्यरूपेण प्रसिद्धिरस्त्येव । शब्दः कचिदाश्रितो गुणत्वादित्यनुमानेन तसिद्धेरिति चेन्न । सामान्यरूपेण प्रसिद्धिसत्वेऽपि साध्यतावच्छेदकरूपेण प्रसिद्ध्यमावात् । धूमपहिसंबन्धप्रतिपत्तौ पदार्थत्वेन तयोः प्रबीतेरस त्रत्वात् । : नैयायिका इति । अयं हि तेषामाशयः । प्रतिज्ञावाक्यमन्तरेण न हेतुवाक्यप्र. योगः कर्तव्यः । अन्यथा हेतुत्वाप्रतीतेः । नापि हेतुप्रयोगमन्तरेणोदाहरणप्रसर । उदाहरणवाक्यस्य हेतुसाध्ययोाप्तिप्रदर्शनात्मकत्वात् । उदाहरणमन्तरेण च नोप
१५. स इत्य । २ क. स. 'त् । यथा ।
For Private And Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126