Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसंहिता। घोपाधिद्विविधः निश्चितः शङ्कितश्चेति । निश्चितो यथा-विप्रतिपमा सेवा दुःखहेतुः, सेवात्वाद्राजसेवावदिति । अत्र पापारब्धत्वमुपांधिः । अयं चेश्वरसेवायो नास्तीति निश्चयादयं निश्चितोपाधिः । शङ्कितो यथा-विप्रतिपनो मीच एतच्छरी रावसाने मुक्तिमानिष्पन्नसमाधित्वाच्छुकादिवदिति । अत्र कर्मात्यन्तपरिक्षय उपाधिः । स च निष्पन्नसमाधौ विप्रतिपन्ने जीवेऽस्ति ना. स्तीति संदिग्धत्वाच्छङ्कितोपाधिः । अतो निरुपाधिकसंवन्धवयाप्यामित्ति सिंदम् । ___ व्याप्यं साधनं लिङ्गमित्यनर्थान्तरम् । तस्य द्वे रूपे अनुमित्यभूतेध्याप्तिः पक्षधर्मता चेति । पञ्च रूपाण्यपि सन्ति । तानि च पक्षसत्त्वं सपक्षसत्त्वं विपक्षायावृत्तिरवाधितविषयत्वमसत्पतिपक्षत्वं चेति । सिसाधयिषितधर्मविशिष्टो धर्मा पक्षः । यथाऽग्निमत्त्वादिसाधने पर्वतादिः । सिसाधयिषितसजातीयधर्मवान्सपक्षः । यथा महानसादिः । साध्यतत्सजातीयशून्यो विपक्ष
या महाहदः । प्रवलेन प्रमाणेन पक्षे निश्चितसाध्याभाववत्वं बाधितविषयस्वम् । यथा महादोऽनिमानित्यादि । तदभावस्त्वबाधितविषयत्वम् । समवलतया प्रतीयमानप्रमाणोपरोधाभावोऽसत्प्रतिपक्षत्वम् ।
एवंभूतं व्याप्यं द्विविधम् --अन्वयव्यतिरेकिकेवलान्वयिभेदात् । पूर्वोक्तपञ्चरूपोपपन्नं व्याप्यमन्वयव्यतिरेकि । यथा पर्वतोऽनिमान्धूमवत्त्वात् । यो यो धूमवान्स सोऽग्निमान्यथा महानसम् । योऽनमिः स निघूमो यथा मेहाद इति । तादृशमेव विपक्षरहित व्याप्यं केवलान्वयि । यथा ब्री शब्दवाच्यं वस्तुत्वाद्धटवत् । विपक्षाभावात्केवलान्वयी चतूरूपोपपत्रः । केवलन्यतिरेकिणि साध्यापसिद्धेस्तव्यतिरेकव्याप्तिहा । अंत: केवलव्यभिचारित्वात् । व्यापकव्यभिचारिणो व्याप्यव्यभिचारावश्यकत्वादिति ।
पर्वतादिरिति । तथाच तादृशपर्वतादिरूपपक्षवृत्तित्वं धूमादेरस्तीति प्रथमरूपसंगतिः। सिसाधयिषितसजातीयेति । सिसाधयिषितो धर्मः पर्वतादिवृत्तिर्वतिस्तत्स. जातीयो महानसादिवृत्तिर्वहिस्तादृशवहिरूपधर्मवानित्यर्थः । महानसादिरिति । तथाच तादृशमहानसादिरूपसपक्षवृत्तित्वं धूमादेरस्तीति द्वितीयरूपसंगतिः । महाहद इति । तथाच तादृशमहानरूपविपक्षावृत्तित्वं धूमस्यास्तीति तृतीयरूपसंगतिः। चतुर्थ दर्शयतिपबलेनेति । पञ्चमं दर्शयति-समबलतयेति ।
साध्यापसिद्धेरिति । यथा पृथिवी गन्धवती पृथिवीत्वादित्यत्र गन्धो न प्रसिद्धः, पक्ष एवं प्रसिद्धश्चेत्सिद्धसाधनम् । सपक्षे चेत्केवलव्यतिरेकित्वहांनिः । विपक्षे चेद्या
१ घ. यं त्वीश्व । २ ख. 'वात्संदिग्धोपा । ३ घ. तज्जाती । ४ घ. 'नसः । यो ।
For Private And Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126