Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। परमाणुकारणत्ववेदपौरुषेयत्वेश्वरानुमानिकत्वजीवविभुत्वानि, सामान्यसमा वापविशेषाणां पदार्थत्वेन स्वीकारः, उपमानादेः पृथक्प्रमाणत्वकरपन, संख्यापरिमाणपृथक्त्वपरत्वापरत्वगुरुत्वद्रवत्वादीनां पृथग्गुणत्वकल्पनं, दि. शोऽपि द्रव्यत्वकल्पनमित्यादिसूत्रकारादिविरुद्धमक्रिया नास्माभिः स्त्री क्रि. यत इति न विरोधः। इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथपदासेन श्रीनिवासदा. . सेन विरचितायां यतीन्द्रमतदीपिकायां प्रत्यक्षनिरूपणं नाम प्रथमोऽवतारः ॥ १॥ नजिर इति श्रुतिस्तु प्रादुर्भावमात्रपरा । ईश्वरानुमानिकत्येति । ननु सित्यकुरादि सकर्तृकं कार्यत्वाद्धटवदित्यनुमानात्तत्सिद्धिरिति चेन्न । तथा सति सपक्षे यादृक्साध्यमव. गतं तादृगेव पक्षे स्यात् । नहि पर्वतेऽनुमीयमानो वह्निरुप्णत्वमपहाय सिध्येत् । तथा च स कर्ता कर्तृव्यापककार्यकरणकर्मादिमानस्यात् । स चानिष्टः । अधिकं तत्त्वमुक्ता. कलापे ( ३।१८ ) द्रष्टव्यम् । नन्वेवमीश्वरानुमानदूषणे विद्याचारो गुरुद्रोही वेदेश्वरविदूषकः । त एते बहुपाप्मानः सद्यो दण्ड्या इति श्रुतिः ।। इति शास्त्रविरोधः स्यादिति चेन्न । अनुमानदूषणेऽप्यागमात्तसिद्धेः । अन्यथाऽ. स्मदादिप्रत्यक्षवेद्यत्वनिषेधेन तवापि तद्दूषकत्वप्रसङ्गः । आगभेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञा लभते योगमुत्तमम् ।। इत्याप्तोक्तावनुमानपदं मननपरमिति बोध्यम् । जीवविभुत्वेति । इदमने जीव. निरूपणे वक्ष्यते । सामान्येति । इदमपि प्रमेयनिरूपणारम्भे वक्ष्यते । उपमानादेरिति । इदमनुमाननिरूपणे वक्ष्यते । संख्यति । इदं गुणनिरूपणे वक्ष्यते । दिशोऽपीति । इदमाकाशनिरूपणे वक्ष्यते ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशे प्रथमोऽवतारः ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126