Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org यतीन्द्रमतदीपिका निर्विकल्पकं तु नामजात्यादियोजनाहीनं वस्तुमात्रावगाहि किंचिदिदमि. त्यादि नैयायिकमतमपि निरस्तम् । ननु ' काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् ॥ इत्युक्तत्वात्कथं गौतममतनिरास इति चेदुच्यते - नास्माभिः कास्पेन तन्मतनिरासः क्रियते । यावदिह युक्तियुक्तं तावत्स्वीक्रियते । परकल्पिततटाकोपजीवनवत् । ने च तटाकस्थः पङ्कोऽपि स्वीक्रियते । अतः Acharya Shri Kailassagarsuri Gyanmandir कघटस्वरूप प्रत्यक्षानन्तरं घटेतरस्मृतौ सत्यां तादृशेतरप्रतियोगिकभेद प्रत्यक्ष संभवेन तयो भिन्नकालज्ञानफलत्वात् । प्रत्यक्षज्ञानस्यैकक्षणवर्तित्वात् । तत्र प्रत्यक्षस्य प्राथमिक स्वरूपविषयकत्वमवश्याश्रयणीयमिति न भेदः प्रत्यक्षेण गृह्यते । किंतु निर्विशेषस न्मात्रमेवेति तदाशयः । 4 निरस्तमिति । निर्विकल्पकमपि सविशेषविषयमेव । तस्य सविकल्प के स्वस्मि ननुभूतपदार्थविशिष्ट प्रतिसंधान हेतुत्वात् । निर्विकल्पकं न सर्वविशेषरहितस्य ग्रहणम् । तथाभूतस्य कदाचिदपि ग्रहणायोगात् । अनुपपत्तेश्च । केनचिद्विशेषेणेदमित्थमिति हि सर्वा प्रतीतिरुपजायते। किंतु गुणसंस्थानादिविशिष्टप्रथमपिण्डग्रहणमेव निर्विकल्पकम् । तथैव प्रागुक्तम् | परमाणुकारणत्वेति । इदमप्रे चतुर्भेऽवतारे वक्ष्यते । वदपौरुषे. यत्वेति । ननु वेदवाक्यं सकर्तृकं वाक्यत्वादस्मदादिवाक्यवदित्यनुमानेन तस्य पौरुषेयत्वं सिध्यतीति चेन्न । अनुग्राहकतकभावेनास्य हेतोरप्रयोजकत्वात् । वाचा विरूप नित्ययेति श्रुतिविरोधेन कालात्ययापदिष्टत्वाच्च । कर्तृस्मरणाभावाच्च तस्यापैौरुषेयत्वम् । न च जीर्णकूपारामादिषु व्यभिचार इति वाच्यम् । उपदेशपारम्पर्येण स्मर्तव्यत्वे सत्यस्मरणस्य कर्त्रभावनियतत्वात् । वेदस्याकर्तृकत्वमिति परमर्पिप्रवादाच्च । ननु सर्ववेदकतेरि भगवति विद्यमानेऽपि मन्वादयस्तदनुविधायिनञ्च वेदवक्तारमपलपन्तीति वाच्यम् । तेषां तदपलापे प्रयोजनाभावात् । न हि सत्यनिष्ठास्तादृशा महात्मानो भगवन्तमप्यपलपन्तीति संभवति । न च नित्यस्य वेदस्य स्फ्यकपालादिभिरनित्यैः कथं योग इति वाच्यम् । स्फ्पकपालपुरोडाशादीनामपि साजात्येनानादित्वात् । न चैवं प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते ' इत्युक्तिरसंगतेति वाच्यम् । अनादिसिद्धानां वेदांशानामनन्तत्वात्कामश्चिन्मन्वन्तरे कश्चिद्वेदांशः प्रवर्तत इति तदभिप्रायात् । ऋचः सामानि १ घन्येनास्य मतस्य नि । २ घ. 'न खलु त । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126