Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकामन्योन्यनिरपेक्ष चन्द्रद्वयग्रहणे हेतुर्भवति । सामग्रीद्वयं पारमार्थिकं तेन चन्द्रद्वयज्ञानं भवति । · अतः सर्व ज्ञानं सत्यं सविशेषविषयं च । निर्विशेषवस्तुनोऽग्रहणात् । एवं भूतं प्रत्यक्ष भेदविशिष्टमेव प्रथमतो गृह्णाति । भेद इति व्यवहारे तु प्रतियोग्यपेक्षा न तु स्वरूपे । तेनानवस्थान्योन्याश्रयदोषोऽपि नास्ति । उपर्युपर्यपेक्षाऽनवस्था । परस्परापेक्षाऽन्योन्याश्रयः । ननु दशमस्त्वमसीत्येतदपि प्रत्यक्ष किं न स्यादिति चेन्न । त्वमित्येतस्य प्रत्यक्षत्वेऽपि दशमोऽहमित्य स्य वाक्यजन्यत्वात् । यदि दशमोऽहमित्यस्य प्रत्यक्षविषयत्वं तर्हि धर्मवांस्त्वमसी. ऋजुः । द्वितीया त्वङ्गुलीनिरोधादिमूलिका वक्रभूना । तत्रैका सामग्री स्वदेशविशिष्टं चन्द्रं गृह्णाति । द्वितीया तु किंचिद्वक्रगतिश्चन्द्रसमीपदेशग्रहणपूर्वकं चन्द्रं स्वदेशवि. युक्तं गृह्णाति । न च चन्द्रसमीपदेशे चन्द्राभावात्कथं तत्र चन्द्रग्रहणमिति वाच्यम् । चन्द्राधिकरणदेशतत्समीपदेशयोरन्तरालाग्रहणेन द्वितीय सामग्या चन्द्रम्य स्वाधिकर. णदेशस्थत्वेनाग्रहणाच्च तथा प्रतीतः । ततश्च ग्रहणभेदन ग्राह्याकारभेदादेकत्वग्रहणाभावाच द्वौ चन्द्राविति भवति प्रतीतिरिति बोध्यम् । . अग्रहणादिति । विशेषरहितस्य वस्तुनो रूपाद्यभावान्न तत्र प्रत्यक्षं क्रमते निर्विकल्पकप्रत्यक्षमपि गुणसंस्थानादिविशिष्टविषयकमेवंति प्रागुक्तमेव । भेदविशिष्टमेवेति । संस्थानरूपजातेरेव भेदस्वरूपत्वेन तादृशभेदविशिष्टमेव गृह्णातीत्यर्थः । यदि भेदो नाम जात्यपेक्षया कश्चिदन्योऽन्योन्यामावरूपः स्यात्तर्हि तत्स्वरूपे प्रतियोग्यपेक्षा स्याङ्कटः पटाद्भिन्न इति । तत्र च घटनिष्ठो भेदो घटस्वरूप एव वा घटाद्भिन्नो वा । आये घटस्वरूपे गृहीते स्वरूपव्यवहारवत्सर्वस्माद्भेदव्यवहारप्रसक्तः । स्वरूपमात्र. भेदवादिनो भेदस्य प्रतियोग्यपेक्षायाः कल्पयितुमशक्यत्वात् । हस्तः कर इतिवद्धटो मिन्न इति पर्यायत्वं च स्यात् । अन्त्ये घटनिष्ठे प्रथमे भेदे घटप्रतियोगिको द्वितीयो भेदः कल्प्यः । तस्मिंश्च द्वितीये भेदे प्रथमभेदप्रतियोगिकस्तृतीयो भेदः कल्प्य इत्यनवस्था स्यात् । किंच जात्यादिधर्मविशिष्टवस्तुग्रहणे सति भेदग्रहणं भेदग्रहणे सति जात्यादिधर्मविशिष्टवस्तुग्रहणम् । अगृहीते हि घटस्य पटा देऽयं घटनातीय इति ज्ञातुमशक्यत्वादित्यन्योन्याश्रयः स्यात् । अतो जातिरेव भेद इत्यङ्गीकार्यमिति भेदविशिष्टस्यैव प्रत्यक्षमिति सिद्धम् । ननु यदि जातिरेव भेदस्तहि तस्य प्रतियोग्य. पेक्षा न स्यादिति चेदिष्टमेवैतत् । कथं तर्हि सा लोके दृश्यत इत्यत आहभेद इति व्यवहार इति। धर्मवानिति। नच धर्मस्यातीन्द्रियत्वान्न प्रत्यक्षमिति वाच्यम्।
१ घ. 'न द्विचन्द्रज्ञा । २ ग. ' विज्ञा । 3 ग. °क्ष प्रथमतो भेदमेव गृ । । क. °षो ना ।
For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126