Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिका
- सत्ख्याति म ज्ञानविषयस्य सत्यत्वम् । तर्हि भ्रमत्वं कथमिति चेद्वि. षयव्यवहारबाधाद्धमत्वम् । तदुपपादयामः-पञ्चीकरणप्रक्रियया पृथिव्यादिषु सर्वत्र सर्वभूतानां विद्यमानत्वात् । अत एव शुक्तिकादौ रजतांशस्य विध. मानत्वाज्ज्ञानविषयस्य सत्यत्वम् । तत्र रजतांशस्य स्वल्पत्वात्तत्र न व्यवहार इति तज्ज्ञानं भ्रमः । शुक्त्यंशभूयस्त्वज्ञानाशमानहात्तिः । स्वमादिज्ञानं तु सत्यमेव । तत्तत्पुरुषानुभाव्यतया तत्तत्कालावसानावयादीन्परमपुरुषः सृजतीति श्रुत्याऽवगम्यते । पीतः शङ्ख इत्यादौ नयनवर्तिपित्तद्रव्यसं. युक्ता नायनरश्मयः शादिभिः सह संयुज्यन्ते । तत्र पित्तगतपीतिमा भिभूतः शङ्खगतशुक्लिमा न गृह्यते । अत: स्वानुलिप्तशतवत्पीतः शन इति प्रतीयते । सूक्ष्मत्वात्पीतिमा स्वनयननिष्क्रान्ततया स्वेनैव गृह्यते न
विषयव्यवहारोते । रज्ज्वां दूरतः सर्पज्ञाने ततः समीपं गतः सर्पज्ञानं भ्रम इति प्रत्येति । तत्र यद्यपि रज्ज्वां सशानां विद्यमानत्वेन विषयस्य सत्यत्वं तथाऽपि तदंशानामरूपत्वेन तत्रायं सर्प इति व्यवहारो न भवति । अत एव तस्य भ्रमत्वम् । न तु विषयासत्यत्वात् । रज्ज्वां सपांशानां विद्यमानत्वं तु ।
तदेव सदृशं तस्य यत्तद्रव्यैकदेशभाक् ' । इत्युक्तरीत्या सिद्धम् । अत एव ।
' सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् ।
सोगावयवसद्भावादिति न्यायविदो विदुः ।। शुक्तिकादाविति । रजतस्य तेजस्त्वेन तदंशानां पञ्चीकरणप्रक्रियया शुक्ति. कादिथिव्यां विद्यमानत्वादित्यर्थः । श्रुत्येति । तथाच श्रुतिः- 'न तत्र रथा न स्थयोगा न पन्थानो भवन्त्यथ रथात्रथयोगान्पयः सृनते....स हि कर्ता' (बृ. ४।३।१० ) इति । रथे युज्यन्त इति रथयोगा अश्वाः । एते च पदार्थास्तत्तत्पुरुषानुभाव्या एवेत्यन्येषां न तदुपलब्धिः । तत्तत्कालावसाना एवेति तस्यैव स्वप्रद्रष्टुनीगृतौ न तदुपलब्धिः । एतादृशविचित्रपदार्थकर्तृत्वं सत्यसंकल्पस्याऽश्चर्यशक्तरीश्वरस्य संभवत्येवेति न का चिदनुपपत्तिः । प्रतीयत इति । ननु दूरस्थशङ्खस्य सामीप्याभावात्तत्रस्थपित्तद्रव्यं पित्तोपहतेनापि पुरुषेण कथं गृह्यत इति चेन्न । पित्तोपहतेन पुरुषेण स्वनयननिष्क्रान्तपित्तद्रव्यज्ञानजनितसंस्कारसहायेन शङ्खस्थं पित्तद्रव्यं दूरस्थमपि स्वचाक्षुषरश्मिभिर्जायते । यथाऽऽकाशेऽतिदूरगतः पक्षी न द्रष्टुं शक्यते । परं तु स्वसमीपदेशोत्पतनकालादारभ्य सततं दृश्यमानस्तत्संस्कारसह
१घ, भिन्ना नय।
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126