Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकामेष्टव्या । पदार्थश्च प्रमाणप्रमेयभेदेन द्विधा भिन्नः । तत्र प्रमेयसिद्धिः प्रमाणाधीना । प्रमाणसिद्धिश्च तस्मादेव प्रमाणादन्यतो वा । आद्य आत्माश्रयः । द्वितीयेऽनवस्था । तथाच प्रमाणासिद्धौ प्रमेयमपि न सिध्यतीति सर्वत्रासख्यातिरेवेति चेन्न । त्वदुक्तोऽयं प्रमाणप्रतिषेधः प्रमाणसिद्धो न वा । आद्ये व्याहतिः। अन्त्ये प्रमाणप्रतिषेधं स्वीकुर्वता त्वया प्रमाणं कुतो न स्वी क्रियते । प्रमाणप्रतिषेधस्य प्रमाणस्य च प्रमाणासिद्धत्वा विशेषादित्यलमनेन ।
मीमांप्तकास्त्वख्यातिमाहुः-अख्याति म न ख्यातिरख्यातिरप्रतीतिः । शुक्तिरजतस्थल इदं रजतमित्यत्रेदमंश एव प्रत्यक्षप्रतीतिविषयः । न रजतांशः। तस्य चक्षुराद्यसंनिकर्षात् । रजतमिति तु स्मृत्याकारदर्शनमित्याहुः । तदपि चिन्त्यम् । रजतस्य प्रत्यक्षत्वेनानुभूयमानत्वात् । स्मर्यमाणस्याप्रवर्तकत्वाच्च । न च यथा शुष्के पतिष्यामीति वारवादिवशात्कर्दमे पतति तथैवात्रावशागतप्रवृत्तिन्यायेन रजतप्रतीत्यभावेऽपि प्रवृत्तिरिति वाच्यम् । इदं रजतमित्यत्रेदमर्थभूतभास्वरद्रव्यजिघृक्षयेव प्रवृत्तेरुपलभ्य. मानत्वात् । नचारजतेऽपि रजतमेदाग्रहात्प्रवृत्तिरस्त्विति वाच्यम् । अग्रहस्य क्वचि दपि प्रवृत्तिहेतुत्वादर्शनात् । किं च यथा निवृत्तिकारणभूतभेदग्रहाभावात्प्रवर्तते तथा प्रवृत्तिकारणभूताभेदग्रहाभावास्किं न निवर्तेत । यथा भेदग्रहस्य निवृत्तिकारणत्वं नेदं रजतमित्यत्र दृश्यत एवमभेदग्रहस्य प्रवृत्तिकारणत्वमिदं रजतमित्यभ्रान्तबुद्धौ दृष्टमेव । ततश्चामेदग्रहरूपप्रवृत्तिकारणाभावात्प्रवृत्तिप्रतिपक्षमता निवृत्तिः कथं न स्यात् । न च सत्यरजते प्रवृत्तिरपि रजतभेदाग्रहादेवेति वाच्यम् । तथाऽपि रजतार्थिनः कदाचिद्रनतान्निवृत्तिरपि रजतामेदाग्रहादिति दृश्यत इति शुक्तिरजतस्थले निवृत्तिकारणभूतरजताभेदाग्रहसद्भावान्निवृत्तिरनिवार्यवेत्यवधेयम् ।
अन्यथाख्याति मान्यस्यान्यरूपेण प्रतीतिः । देशकालान्तरगतं रजतभेव शुक्तिसं. प्रयुक्तेन दोषोपहतेनेन्द्रियेण शुक्त्यात्मना गृह्यते । न चैवमननुभूतस्यापि ग्रहणं स्यादिति वाच्यम् । सादृश्यादेनियामकत्वात् । प्रयोगश्च-विवादपदं शुक्तिशकलं रजतज्ञानवि. षयो रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात्सत्यरजतवत् । रजतस्योपायः कारणं खन्यादिः । तस्य रजतार्थिप्रवृत्तिविषयत्वेऽपि रजतज्ञानविषयत्वाभावाद्यभिचा.
। त्तद्वारणाय सत्यन्तं विशेषणमुपात्तमित्ति नैयायिकाः । तत्रान्यथात्वं किं ज्ञानेऽथवा फल उत वस्तुनि । नाऽऽद्यः । रजताकारं ज्ञान शुक्तिमालम्बत इति ज्ञानेऽन्यथात्वं वाच्यम् । तत्र रजताकारग्रस्तं ज्ञानं प्रति शुक्तेः स्वाकारसमर्पणासंभवः । न द्वितीयः । फलस्य स्फुरणस्य भ्रान्तौ सम्यग्ज्ञाने वा स्वरूपतो वैषम्यादर्शनात् । नापि तृतीयः। वस्तुन्थन्यथात्वं हि शुक्तिकायां रजततादात्म्यं किंवा रजताकारेण परिणामः । आयेऽत्यन्तभिन्नयोस्तिवतादात्म्यासंभवः । द्वितीये तु बाध एव न स्यात् । रजतज्ञानमबाध्य
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126