Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिका- यथा स्मृतेः प्रत्यक्षेऽन्तर्भावस्तथा सोऽयं देवदत्त इति प्रत्यभिज्ञाया अपि प्रत्यक्षेऽन्तर्भावः । अस्मन्मतेऽभावस्य भावान्तररूपत्वात्तज्ज्ञानस्यापि प्रत्य. क्षेऽन्तर्भावः । भूतले घटात्यन्ताभावो भूतलमेव । घटमागभावो नाम मृदेव । घटध्वंसश्च कपालमेव । प्रायः पुरुषेणानेन भवितव्यमेतदूहेः । पुरः किंसंज्ञ. कोऽयं वृक्ष इत्यनध्यवसायो ज्ञानं संशय उक्तः। एतयोरपि प्रत्यक्षेऽन्तर्भावः । पुण्यपुरुषनिष्ठा प्रतिभाऽपि प्रत्यक्षेऽन्तर्भूता । सर्व विज्ञानं यथार्थमिति वेदान्तविदा मतमित्युक्तत्वात् । भ्रमादिप्रत्यक्षज्ञानं यथार्थमेव । अख्यात्यात्म
अथानुपलब्धिप्रमाणस्य प्रत्यक्षेऽन्तावमाह-अस्मन्मत इति । अन्तर्भाव इति । तथा च प्रयोगः-अभावज्ञानमिन्द्रियजन्यमिन्द्रियान्वयव्यतिरेकानुविधायित्वाद्धटादिज्ञानवदिति । ननु गजाभाववति क्वचित्प्रदेशे विद्यमानमपि गजामावं कारणाभावादननु. भूयान्यत्र गतश्चैत्रो मैत्रेण ' तस्मिन्प्रदेशे गजो दृष्टः किम् ' इति पृष्टः संस्तत्प्रदेशे गजाभावं निश्चिनोतीति तदर्थमनुपलब्धिप्रमाणमङ्गीकार्यमेव । नात्र प्रत्यक्षं क्रमते । तत्प्रदेशस्येदानीमिन्द्रियासंनिकर्षादिति चेत्सत्यम् । तत्प्रदेशे गजाभावः स्मर्तव्यस्य स्मरणामावादनुमीयते । तथा च प्रयोगः- विप्रतिपन्नः प्रदेशो गजवत्तया मयाऽननुभूतः, स्मर्तव्यत्वे सति तद्वत्तयेदानीमस्मर्यमाणत्वादिति । तथाच स्मरणाभावादनुभवाभावः । अनुभवाभावाच्च विषयाभाव इति तत्सिद्ध्यर्थ न प्रमाणान्तरापेक्षेति भावः । एतयोरपीति । ननु संशयस्यायथार्थज्ञानत्वेन कणादेन प्रतिपादनात्कथं प्रामाण्यमिति चेन्न । स्थाणुर्वा पुरुषो वेत्यत्र पुरोवर्तिवस्तुज्ञानं स्थाणुत्वपुरुषत्वविषयकं ज्ञानं चैकमेवेति वक्तुं न शक्यते । पुरोवर्तिवस्तुनः स्थाणुत्वविशिष्टतया भाने पुरुषत्वविशिष्टतया भानासंभवात् । एवं पुरुषत्वविशिष्टतया भाने स्थाणुत्वविशिष्टतया भानासंमवात् । तथाच तत्र ज्ञानद्वयमवश्यं वाच्यम् । तत्र चोर्ध्वद्रव्यमानमनुभवः । स्थाणुपुरुषभानं तु स्मरणम् । तत्रापि पूर्वमनुभवः । तेन कोटिद्वयस्मृतिहेतुसंस्कारोबोधे पश्चात्कोटिद्वयस्मरणं जायते । यथार्थत्वं तु द्वयोरप्यनयोनिर्विवादमेव। उहविषयेऽप्येवमेव बोध्यम् । प्रतिभाऽपीति । भूतभाविवस्तुसाक्षात्काररूपाया अप्यस्या यथार्थत्वमेव । वस्तुसाक्षात्कारस्य वस्तुसदृशवस्तुसाक्षात्काररूपत्वात् । स्वप्तदृशे वस्तुनि स्वस्यांशतो विद्यमानत्वात् । तदाह--सर्व विज्ञानमिति । अख्यातीति ।
आत्मख्यातिरसख्यातिरख्यातिः ख्यातिरन्यथा । तथाऽनिर्वचनख्यातिरित्येतत्ख्यातिपश्चकम् ॥१॥
१ ग. °व एवं सो । २ क. प. हः । संश।
For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126