Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता। स्वन्यः । जपाकुसुमसमीपवार्तिस्फटिकमणिरपि रक्त इति गृह्यते । तज्ज्ञानं सत्यमेव । परीचिकायां जलझानमपि पञ्चीकरणप्रक्रियया पूर्वोक्तवदुपपद्यते । पश्चीकरणप्रक्रिया तूत्तरत्र वक्ष्यते । दिग्भ्रमोऽपि तथैव । दिशि दिगन्तरस्य विद्यमानत्वात् । अवच्छेदकमन्तरेण दिगितिद्रव्यान्तरानङ्गीकाराच्च । अलासचकादौ तु शैघ्यात्तदन्तरालाग्रहणात्तत्तद्देशसंयुक्ततत्तद्वस्तुन एव चक्राकारेण प्रहणम् । तदपि सत्यमेव । दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्था । दर्पणादिप्रतिहतगतयो नायनरश्मयो दर्पणादिग्रहणपूर्वकं निजमुखादि गृह्णन्ति । तत्राप्यतिशेध्यादन्तरालाग्रहणात्तथा प्रतीतिः । द्विचन्द्रज्ञानादाबप्यनुल्यवष्टम्भतिमिरादिभि यनतेजोगतिभेदेन सामग्रीभेदात्सामग्रीद्वय
कृतेन चक्षुषा दूरगतोऽपि ज्ञायते तद्वत् । रक्त इतीति । जपाकुसुमप्रभाभिभूतत्वात् तत्र जपाकुसमप्रभा वितताऽपि स्फटिकादिस्वच्छद्रव्यसंयुक्ता स्फुटतरमुपलभ्यते । तत एव च तत्समीपवर्तिनोऽन्ये घटादयः पदार्था न रक्ता उपलभ्यन्ते । पञ्चीकरणप्रक्रिययेति । तथा च तेजःपृथिव्योरप्यम्बुनो विद्यमानत्वात्तज्ज्ञानं सत्यमेव । तत्रेन्द्रियदोषेण तेजःपृथिव्योरग्रहणम् । अदृष्ट वशाच्चाम्बुन एव ग्रहणम् । अयथार्थज्ञानवादिभिरपि कचिदेव भ्रमस्य स्वीकृतत्वेन तन्नियामकत्वमदृष्टस्याङ्गीकर्तव्यमेव । विद्यमानत्वादिति । तथा च पूर्वदिशः पश्चिमदिकत्वेन ज्ञानं यथार्थमेव । पूर्वस्यां दिशि पश्चिमादिगंशस्य वस्तुतः सत्त्वात् । वस्तुतो दिश एकत्वात् । दिग्भेदस्यौपाधिकत्वात् । यो ग्रामस्तत्पश्चिमदिक्स्थैः पूर्वदिक्स्थ इति व्यवहियते स एव तत्पूर्वदिक्स्थैः पश्चिमदिक्स्थ इति व्यवह्रियते । द्रव्यान्तरानङ्गीकारादिति । एतच्च चतुर्थेऽवतार आकाशनिरूपणे वक्ष्यते । अलातेति । अलातमुल्मुकम् । तद्यदा चक्रवद्भ्राम्यते तदा वस्तुतस्तत्प्रतिक्षणमैकैकदिक्संयुक्तमपि सर्वदिक्संयुक्तमिव वर्तुलाकारं दृश्यते । तत्रान्तरालाग्रहणाद्वर्तुलाकारप्रतीतिर्भवति । वास्तविकचक्रेऽपि वर्तुलाकारप्रतीतावन्तरालाग्रहणमेव मूलम् । इयांस्तु विशेषः-वास्तविकचक्रेऽन्तरालाभावादेव तदग्रहणम् । अत्र त्वन्तरालसत्वेऽपि शैघ्यात्तदग्रहणमिति । गृहन्तीति । ननु स्वमुखस्यैव ग्रहणे स्वमुखस्य स्वाभिमुखत्वाभावेन तस्य स्वाभिमुखत्वेन कथं प्रतीतिरित्यत आह-तत्रापीति । अन्तरालाग्रहणात् । दर्पणमुखयोर्यदन्तरालं तदा हणात् । अङ्गुल्यवष्टम्भः । अङ्गुल्या नेत्रनिरोधः । तिमिरः । नेत्ररोगः तेजोगतीति । तेजोगतिरव चन्द्रग्रहणसामग्री । सा च द्विधा । एका स्वाभाविकी
१५. 'दो शैम्याद । २ घ. 'यो नय। ३ क. ख. ग. दि चिरं
।
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126