Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। त्येतस्यापि प्रत्यक्षत्वं स्याद । अङ्गीकारेऽतिप्रसङ्गात् । अत एव तत्त्वमसीतिवाक्यस्य नापरोक्षज्ञानजनकत्वम् । एतेन प्रत्यक्षप्रमाकरणं प्रमाणम् । प्रमो चाऽऽत्मचैतन्यमेव । चैतन्यं च त्रिविधम-अन्तःकरणावच्छिन्नं चैतन्यम् । अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यम् । विषयावच्छिन्नं चैतन्यं चेति । यदा त्रयाणामैक्यं तदा साक्षात्कारः । सोऽपि निर्विशेषविषय एवाभेदमेव गृह्णातीत्यादिकुदृष्टिकल्पना निरस्ता। तथाऽप्ययं पर्वतः परभागे वह्निमानित्युपदेशजन्यज्ञानस्य वह्नयंशे प्रत्यक्षत्व. प्रसङ्गात् । नच वह्निमत्त्वेन पर्वतस्य प्रत्यक्षविषयत्वमसिद्धमिति वाच्यम् । अत्रापि दश. मत्वविशिष्टाकारेण प्रत्यक्षविषयत्वासिद्धेः । एतेन तत्त्वमसीति वाक्यं स्वार्थप्रत्यक्षज्ञानजनकं स्वतः प्रत्यक्षार्थविषयत्वाद्दशमस्त्वमसीत्यादिवाक्यवदित्यनुमानं निर. स्तम्। तदेवाऽऽह-अत एवेति । प्रत्यक्षप्रमेति । मायावादिनां मतमेतत् । आत्मचैतन्यमेवेति । अत्र प्रमाणं यत्साक्षादपरोक्षाद्रम ' (बृ. ३ । ४ । १) इति श्रुतिः । अपरोक्षादित्यस्यापरोक्ष. मित्यर्थः । ब्रह्मणः प्रमाणव्यापारद्वारकं प्रत्यक्षत्वं व्यावर्तयितुं श्रुतौ साक्षादिति विशेषणम् । अन्तःकरणावच्छिन्नमिति । इदं प्रमातृचैतन्यमिति व्यवह्रियते । अन्तःकरणवृत्त्यवाच्छिन्नमिति । इदं प्रमाणचैतन्यमिति व्यवह्रियते । विषयावच्छि. नामिति । इदं विषयचैतन्यमिति व्यवह्रियते । त्रयाणामैक्यमिति । यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैनसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशं गत्वा घटादिविषयाद्याकारेण परिण. मते । स एव परिणामो वृत्तिरित्युच्यते । तत्र च घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवधानात्तदुभयावच्छिन्नं चैतन्यमेकमेव । विभानकयोरप्यन्तःकरणवृत्तिघटविषययोरेकदेशस्थत्वेन भेदाजनकत्वात् । अत एव मठान्तर्वर्तिघटावच्छिन्नाकाशो न मठावच्छिन्नाकाशाद्भिद्यते । तथा चायं घट इत्यादिप्रत्यक्षस्थले घटाकारवृत्तेर्घटसंयोगितया घटावच्छिन्नचैतन्यावृत्त्यवच्छिन्न चैतन्यस्याभिन्नतया घटज्ञानस्य प्रत्यक्षत्वमिति वेदान्त. परिभाषायामुक्तम् । निर्विशेषविषय इति । घटोऽस्तीत्यत्रास्तित्वं तद्भेदश्च व्यवहियते । तत्र द्वयोरपि व्यवहारयोः प्रत्यक्षमूलत्वं न संभवति । अस्तित्वव्यवहारप्रयोज १ क. मात्चं चा"। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126