Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। दिष्वगुल्या निर्दिश्य तदभिधायिनः शब्दान्मयुञ्जानैः क्रमेण भूयः शिक्षिताना तत्तदर्थबुद्ध्युत्पत्तिदर्शनाद्वेदेऽपि परिनिष्पन्नेऽप्यर्थे शब्दस्य बोधकत्वं संभपतीति नापामाण्यशडकावकाशः । तीभिचारादिप्रतिपादकवेदांशस्य कथं मामाण्यमिति न पास्नीयम् । तस्य दृष्टफलदर्शनेनादृष्टस्वर्गादिफलसापनादौ प्रवृत्तिप्रयोजकत्वात् । यूपादित्यवाक्यं स्वादित्यवधूपमकाशनपरम् । अतः करनस्य वेदस्य मामाण्यम् । " स वेदः कर्मब्रममतिपादकपूर्वोत्तरभागाभ्यां द्विधा भिन्नः। आराधनकर्मप्रतिपादकं पूर्वकाण्डम् । आराध्यप्रतिपादकमुत्तरकाण्डम् । उभयोर्मीमांसयोरैकशास्त्रयम् । भागद्वयात्मको वेद ऋग्यजुःसामाथवरूपेण चतुर्धाऽवस्थितः । पुनरनन्तप्रकारश्च । ऋगादिबहुप्रकारवान्वेदो मत्रार्थवादविधिरूपेण विविधः । अनुष्ठेयार्थप्रकाशको मनः । विध्यधीनप्रवृत्त्युत्तम्भकवाक्यविशेषोऽर्थवादः । इति वाक्यं प्रयुते । एवं बहुशः शिक्षितो व्युत्पित्सु लो यदा गोशब्दं शृणोति तदा स गोशब्द एव स्वस्वरूपेण श्रोतुस्तस्य तादृशपशुबुद्धिमुत्पादयति । ततोऽस्य पशोर्मोशब्दस्य च कश्चन संवधोऽस्तीति सोऽवधारयति । तत्र च जन्यजनकभावादीनामितरसंबन्धानामसंभवात्स्वाभाविको बोध्यबोधकमाव एव संबन्ध इति शब्दार्थसंबन्धग्रहणप्रकारो लोके प्रसिद्ध एव । अभिचारादीति । अभिचारो मारणम् । शत्रुवध इत्यर्थः । तत्प्रदिपादको वेदश्च ' श्येनेनाभिचरन्यनेत ' इत्यादिः । स वेद इति । वेदसामान्यलक्षणं तु अलौकिकोपायबोधकत्वम् । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेद इति तदर्थात् । पूर्वोत्तरेति । पूर्वमागः · अग्निाळे'' इषे त्वोर्ने वा ' इत्यादिः । उत्तरमाग उपनिषद्रूपः । ऐक. धारूपमिति । उपपत्रापि धर्मस्यैव प्रतिपाद्यमानत्वात् । अलौकिकं श्रेयःसाधनं हि. धर्मः । स च साध्यरूपः क्रियादिः पूर्वभागेन प्रतिपाद्यते । सिद्धस्तु ब्रह्मरूपो धर्म उत्तरभागेन प्रतिपाद्यते । सिद्धरूपे वस्तुनि धर्मशब्दप्रयोगो महामारते दृश्यते । यथा ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्म सनातनम् ' ॥ इति । ऋग्यजुरिति । पादेनार्थेन चोपेता वृत्तबद्धा मन्त्रा ऋचः । वृत्तगीतिवानतत्वेन प्रश्लिष्टपठिता मत्रा यषि । गीतिरूपा मन्त्राः सामानि । एतन्मिश्रितोऽथर्ववेदः । एवं चातुर्विध्येऽप्यथर्ववेदस्य त्रिवन्तर्भूतत्वेन वस्तुतस्त्रैविध्यमेवेति प्रयाशब्देनापि तस्य प्रसिद्धिरिति बोध्यम् । मवेति । प्रयोगसमवेतार्थस्मारको मन्त्रः । यथाअग्निमीळे' इत्यादिः । विध्यधीनप्रवृत्तीति । प्रवृत्तिपदं निवृत्तेरप्युपलक्षणम् । १ घ. 'धायकश १ . स. पलाई। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126