Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता।
२९ अथ श्रुत्यविरुद्धाचारव्यवहारमायश्चित्तादिप्रतिपादकासप्रणीता स्मृतिः प्रमाणम् । हिरण्यगर्भादीनामाप्तत्वेऽपि तेषां गुणत्रयावश्यकत्वसंभवात्तत्कर्तृ. कयोगकपिलादिस्मृतीनां मन्वादिस्मृत्यविरुद्धांश एव प्रमाणम् । तत्त्वविपर्यासाविरुद्धांशोऽप्रमाणम् । वेदोपबृंहणरूपेतिहासपुराणयोरपि प्रामाण्यं स्वतः सिद्धम् । तत्र भारतरामायणयोः कचिद्विरोधमानेऽपि तत्त्वांशे वेदान्तवाक्यबदविरोधो शेयः । सर्गादिपञ्चप्रतिपादकपुराणेष्वपि सारिखकराजसतामस
वेदोपबृंहणेति । तदुक्तम्
— इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् ।
विभेत्यरुपश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ___ इति । उपबृंहणं नाम विदितसकलवेदतदर्थानां स्वयोगमहिमसाक्षात्कृतवेदतत्वाथीनां वाक्यैः स्वावगतवेदवाक्यार्थव्यक्तीकरणम् । सकलशाखानुगतस्य वेदवाक्या, स्यास्पभागश्रवणाहुरवगमत्वेन तेन विना निश्चयायोगादृपबृंहणं हि कार्यमेवेति श्रीमा. व्यकृद्भिः प्रतिपादितम् । स्वतः सिदमिति । मूलभूतश्रुत्यनुमानादेवेत्यर्थः । सर्गादीति । तदुक्तम्
'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंच्यानुचरितं चैव पुराणं पञ्चलक्षणम् ॥' . इति । तथ त्रिविधम् - सात्त्विकराजसतामसभेदात् । तदुक्तं पद्मपुराणे
'वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च तथा पानं वाराहं शुभदर्शने ॥' सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥ ब्रह्माण्डं ब्रह्मवैवर्त मार्कण्डेयं तथैव च । मविष्य वामनं ब्रामं राजसानि निबोधत॥ मात्स्यं कौम तथा लैङ्गं शैवं स्कान्दं तथैव च ।
आग्नेयं च षडेतानि तामसानि निबोधत '॥ इति । सात्त्विकादिविभागे कारणं मात्स्ये प्रदर्शितम्- .
'भग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ।। राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः। संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ।।
१ ख. घ. 'त्रयवश्यत्व।
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126