Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता।
परिणामज्ञानत्वात्क्षीरंपरिणामदुग्धज्ञानवत् । शुक्तिः पुनः क्षीरवदेव बाध्येत । तथा चान्यथाख्यातिदुर्वचा । प्रयोगश्च-विमता शुक्ती रजतज्ञानाविषयः शुक्तित्वादितरशुक्तिवत् । नच प्रागुक्तहेतुना सत्प्रतिपक्ष इति वाच्यम् । तस्य सविशेषणत्वेन दुर्बलत्वात् । - मायिनस्त्वनिर्वचनीयख्यातिमाहुः । अनिर्वचनीयख्याति म सत्त्वेनासत्त्वेन चानिर्वच नीयस्य रजतादेः ख्यातिः प्रतीतिः । शुक्तिरजतस्थले च रजतं न सत् । भ्रान्तिबाधयोरसंभवात् । नाप्यसत् । ख्यातिबाधयोरसंभवात् । बाधस्य प्रतियोगिपूर्वकत्वेनासतस्तदः संभवात् । किंतु शुक्त्यज्ञानपरिणामभूतं सदसद्भयामनिर्वचनीयमपूर्व रजतमुत्पद्यते । तदेव च तत्र रजतज्ञानविषयः । तदुक्तम्---
- 'सत्त्वे न भ्रान्तिबाधौ स्तो नासत्त्वे ख्यातिबाधने ।
सदसयामनिर्वाच्याविद्याऽऽविधैः सह भ्रमः' इति ।। आविद्यैरविद्यापरिणामभूतै रजतादिभिः । प्रपञ्चम्याप्यनाद्यविद्यापरिणामभूतत्वादनि. वचनीयत्वमेवेति । तदपि चिन्त्यम् । अनिर्वचनीयत्वं वाच्यत्वराहित्यं चेत्सर्वव्यवहारविरोधः । ब्रह्मण्यपि त्वया वाच्यत्वराहित्याभ्युपगमेन तस्यापि प्रपञ्चतुल्यत्वापत्तिश्च । सत्त्वासत्त्वरहितत्वमितिचेच्छुक्तिरजतादावपि प्रातिभासिकसत्वस्य त्वयाङ्गीकारेण तत्रानिर्वचनीयवानापत्तिः । न च सत्त्वपदेन पारमार्थिकमेव सत्त्वं गृह्यत इति वाच्यम् । तथाऽपि ब्रह्मण्यतिप्रसङ्गात् । न हि ब्रह्मण्यपि पारमार्थिकं सत्त्वं नाम कश्चिद्धर्मस्त्वये. ध्यते । तस्य निर्धर्मकत्वेन त्वयाऽङ्गीकारात्। अथ सदसद्विलक्षणत्वमेवानिर्वचनीयत्वमिति चेन्न । तथाविधस्य वस्तुनः प्रमाणशन्यत्वात् । सर्वं हि वस्तु नातं प्रतीतिव्यवस्थाप्यम् । प्रतीतिश्च काचित्सदाकारा घटादिविषया । काचिदसदाकारा च शशशृङ्गादिविषया। न तत्र तृतीया विधा का चिदुपलभ्यते । प्रतीतिविरुद्धस्यापि प्रतीतिविषयत्वेऽङ्गीक्रिय. माणे सर्व सर्वप्रतीतेर्विषयः स्यात् । सतोऽपि घटादेरसत्प्रतीतिविषयत्वं स्यात् । असतोऽ. पि शशशृङ्गादेः सत्प्रतीतिविषयत्वं स्यात् । किंच प्रपञ्चस्य प्रतीतिबाधाभ्यां सत्त्वासत्त्वयोः सिद्धौ तयोः समुच्चयो विकल्पो वा स्यान्न तद्विलक्षणत्वम् । किंचैतदनिर्वचनीयत्वं स्वयं सदसद्वा । सत्त्वे कथं तस्यासत्यप्रपञ्चवृत्तिता । असत्त्वे तु किं तेन कृतं स्यात् । किंचानिर्वचनीयरजताद्युत्पत्तौ कि कारणम् । न तावत्प्रतीतिः । उत्पत्तेः प्राक्तस्या असंभवात् । नापीन्द्रियाणि । तेषां ज्ञानकारणत्वात् । नापि तद्तो दोषः । तस्य पुरुषाश्रयत्वेन शुक्तावनिर्वचनीयरजतोत्पादकत्वायोगात् । नापि दुष्टानीन्द्रियाणि । तेषामपि स्वकार्यभूते ज्ञान एव विशेषकरत्वात् । अथ विषयगतो दोषः कारणमिति चेत्स किं विषयमात्रनिष्ठो विषयपुरुषोभयनिष्ठो वा । आद्ये पुरुषस्य सर्वथा निर्दोषत्वेन भ्रमासंभवः । अन्त्ये तूभयनिष्ठदोषस्य केवलविषये कार्योत्पादकत्वासंभव इति बोध्यम् ।
For Private And Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126